________________
प्रशमरतिप्रकरणम्
किञ्चिच्छुद्धं कल्प्यमकल्प्यं स्यात्स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजाद्यं वा ॥१४५॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं नैकान्तात् कल्प्यते कल्प्यम् ॥१४६॥
करोति । यद्वस्तु आहारादि गृह्यमाणं प्रत्युतोपहन्ति । सम्यग्दर्शनं सम्यग्ज्ञानं २श्रुतं आगमाख्यम् । शीलं मूलगुणा उत्तरगुणाश्च । योगा मनोवाक्कायाख्याः । अहर्निशाभ्यन्तरानुष्ठेया वा व्यापारा योगाः । तदुपघातकारित्वात् कल्प्यमपि सदकल्प्यमेव द्रष्टव्यम् । प्रवचनकुत्साकरं यच्च ३कुत्सा निन्दा गर्दा तां करोति । यत्सर्वमकल्पनीयं मांसं मद्यादि ५अभोज्यादिकुलेषु भक्तपानादिग्रहणम् । सर्वमेव प्रवचनकुत्साकारि भवत्यकल्प्यमिति ॥१४४॥
(१४५) टीका-किञ्चिदित्यादि । किञ्चिदाहाराद्युद्गमादिशुद्धमपि कल्प्यमकल्प्यमेव स्यात् । घृतक्षीरदधिगुडादि विकारहेतुत्वाद्, अनर्थापत्तेः परिहार्यम् । तथा अकल्प्यमपि कल्प्यं तदेव, क्षीरघृतादि ३वातविकारिणां कल्प्यं जायते । पिण्ड इत्याहारश्चतुर्विधः, शय्या प्रतिश्रयः, वस्त्रं पात्रं वा भैषजाद्यं वा औषधमपि व्याध्यात्नां मिश्रं ४चेतनं वा कल्पनीयमेव । नीरोगवपुषस्त्वकल्प्यमिति ॥१४५||
(१४६) टीका-कदा कल्प्यं कदा वाऽकल्प्यमिति' विभजते-देशं कालमित्यादि। २देशं प्राप्य किञ्चिदकल्प्यमपि कल्प्यं भवति । कालो दुर्भिक्षादिः तत्राप्येवम् ।
कल्पनीयमिति ॥१४४॥
(१४५) (वि०) किञ्चिद्वस्तु शुद्धं-कल्प्यमकल्प्यं स्याद्, अतिस्निग्धादि, विकारहेतुत्वादनपत्तेः परिहार्यम् । तथा अकल्प्यमपि कल्प्यं स्याद्, वातविकारिणामिति । किं तदेवं स्यादित्याह-पिण्ड इत्यादि स्पष्टमिति' ॥१४५।।
(१४६) (वि०) कदा कल्प्यं कदा वा अकल्प्यमिति विभजते-देशमिति । देशंग्रामादिकं तथा कालं-दुर्भिक्षादिकं पुरुष-प्रव्रजितराजपुत्रादि' अवस्थां-सहिष्णुत्वप्रभृतिकां प्रसमीक्ष्येति योगः, तथोपयोगश्च-गुणः, पाठान्तरे तु उपघातश्च-सक्तुकादिषु जीवसंसक्तिदोषः, निन्दाकरं, तदप्यकल्पनीयम् ॥१४४॥
(१४५)(अव०)-'घृतक्षीरादि विकारहेतुत्वात्, तदेव वातविकारिणां-व्याध्यात्नां, मिश्रं सचेतनं चाकल्पनीयमेव, अजीर्णेऽन्नपरिभोगवत् । सरोगस्य औषधवत्, नीरोगस्याकल्प्यम् ॥१४५॥
(१४६) (अव०)-१देशं ग्रामारण्यादिकं, कालं-सुभिक्षदुर्भिक्षादिकं, पुरुषं प्रव्रजितश्रेष्ठिसुत-राजपुत्रादिकम्, अवस्था सहिष्णुत्वेतरादिरूपाम्, उपघातः-संसक्तदोषः, तच्च अग्राह्यं