________________
प्रशमरतिप्रकरणम्
तच्चिन्त्यं तद्भाष्यं तत्कार्यं भवति सर्वथा यतिना । नात्मपरोभयबाधकमिह यत्परतश्च सर्वाद्धम् ॥१४७॥
पुरुषो राजादिप्रव्रजितः तदर्थमकल्प्यमपि कल्प्यम् । अवस्था मान्द्यादिका तत्रापि वैद्योपदेशादकल्प्यमपि कल्प्यम् । उपघातः संसक्तदोषः तच्च ३सक्तुकादि संसक्तं सदग्राह्य अकल्प्यं तदेव चान्यालाभे यत्नेन प्रत्यवेक्ष्य ग्राह्यं कल्प्यमिति । शुद्धपरिणामानिति पशुद्धपरिणामचेतसः, सर्वत्र क्रिया गृह्यते । अकल्प्यमपि कल्प्यं भवतीत्येतदेव दर्शयति पश्चार्द्धन । प्रसमीक्ष्य सम्यगालोच्य कल्पनीयं गृह्णतः । नैकान्तात् कल्पते कल्प्यमिति न खल्वेकान्तेनैव कल्प्यते जायते कल्प्यम् । अथवा नैकान्तेनैव कल्प्यते कल्प्यम् । अकल्प्यमेकान्तेनैव कल्पनीयमकल्प्यमिति यस्माद्देशकालाद्यपेक्षया कल्प्यमकल्प्यं भवति अकल्प्यमपि कल्पनीयमिति ॥१४६॥
(१४७) टीका-एवमनैकान्तिकं कल्प्याकल्प्यविधि निरूप्य योगत्रयनियमनाय सझेपत इत्याह-तच्चिन्त्यमित्यादि। मनसा तदेव चिन्त्यमालोच्यं आरौिद्रध्यानद्वयव्युदासेन,
यन्नात्मनः परस्योभयस्य वा बाधकं भवति । वाचापि तदेव भाष्यं भाषणीयं, यन्नात्मादीनां बाधकं भवति । सर्वथा यतिना कायेनापि धावनवल्गनादिक्रियात्यागेन तदेव कार्यं कर्तव्यं, यन्नात्मादीनां बाधकं भवति । सर्वाद्धमिति अद्धा कालः सर्वकालमित्यर्थः । वर्तमानेऽनागते च । तत्रापि वर्तमानो व्यावहारिकः परिग्राह्यः । अनागतश्च सर्व एव । अतो मनोवाक्कायैः सम्यग्व्यापारा:४ कार्याः तथा, यथा स्वल्पोऽपि कर्मबन्धो न जायत इति ॥१४७।।
शुद्धिः-चित्तनैर्मल्यं परिणामश्च-भावस्यान्यथाभवनं ते तथा तान्, क्वापि समाहारो दृश्यते ततस्तत्, प्रसमीक्ष्य-पर्यालोच्य भवति-जायते कल्प्यं-ग्राह्यं, भवति कल्प्यं शुद्धं पिण्डादि । न-नैवैकान्तात्निश्चयेन कल्पते-ग्राह्यं भवति, कल्प्यं-शुद्धं पिण्डादि, देशाद्यपेक्ष्य अकल्प्यमपि कल्प्यं भवतीति भावनेति ॥१४६।।
(१४७) (वि० ) एवमनैकान्तिकं कल्प्याकल्प्यविधि निरूप्य योगत्रयनियमनायाहतच्चिन्त्यमिति। तत् चिन्त्यं-चित्तेन चिन्तनीयं तद्भाष्यं-वचनेन भणनीयं तत् कार्य-शरीरेण विधेयं भवतिजायते सर्वथा-सर्वैः प्रकारैः, केन?-यतिना-साधुना, 'न-नैव, आत्मा च परश्चोभयं च आत्मपरोभयाः तेषां बाधकं-दुःखकारकमिह-इहलोके यत् परतश्च-परलोके सर्वाद्धं-सकलकालमिति॥१४७॥
कदाचिद् ग्राह्यं शुद्धिः-चित्तनैर्मल्यं, परिणामो-भावस्यान्यथात्वं, कल्प्या३, अनैकान्तिकं कल्प्याकल्प्यम् ॥१४६॥
(१४७) (अव०)-'आत्मनः परस्योभयेषां च, बाधाकरम्, इहलोके परत्र च, सर्वाद्धं सर्वकालम् ॥१४७॥