________________
प्रशमरतिप्रकरणम्
सर्वार्थेष्विन्द्रियसङ्गतेषु वैराग्यमार्गविघ्नेषु ।
परिसङ्ख्यानं कार्यं कार्यं परमिच्छता नियतम् ॥१४८॥ भावयितव्यमनित्यत्वमशरणत्वं तथैकताऽन्यत्वे । अशुचित्वं संसारः कर्माश्रवसंवरविधिश्च ॥ १४९॥
९३
(१४८) टीका - सम्प्रतीन्द्रियनियममाचष्टे - सर्वार्थेष्वित्यादि । सर्वे च तेऽर्थाश्च १शब्दरूपगन्धरसस्पर्शा; इन्द्रियैः सङ्गताः इन्द्रियाणां गोचरतां गताः तेषु । वैराग्यमार्गविघ्नेषु वैराग्यमार्गः सम्यग्ज्ञानक्रियास्तद्विघ्नेषु तदन्तरायकारिषु शब्दादिविषयेषु । परिसङ्ख्यानं कार्यं इत्वरानेतान् शब्दादीन् विज्ञाय निःसारान् आयतावहितान् परिसङ्ख्याय ४ प्रत्याख्याय गोचरवर्तिनोऽपि रागद्वेषवर्जनद्वारेण ज्ञानपरिज्ञया प्रत्याख्यानपरिज्ञया चेत्युभाभ्यां प्रकाराभ्यां परिसङ्ख्यानं कार्यमित्यर्थः । कस्मात्पुनः ५परिसङ्ख्यायन्ते गोचरमागता विषयाः शब्दादयः ? इत्याह-कार्यं परमिच्छता नियतं । कार्यं सकलकर्मक्षयलक्षणो मोक्षः । प्रकृष्टं परं धर्मार्थकाममोक्षाणां मोक्षाख्यमेव कार्यं परं । कामस्य दुःखात्मकत्वात् दुःखहेतुत्वात् तत्साधनव्यभिचारात्, अर्थस्यार्जनरक्षणक्षयसङ्गहिंसादिदोषदर्शनात् अनर्थानुबन्धित्वाच्च नृसुरैश्वर्याणां क्षयातिक्लेशयुक्तत्वात्, अभ्युदयलक्षणस्य धर्मस्यार्थकामफलत्वाद् दुष्टता, सर्वत्रा ७त्यन्तिकैकान्तिकसुखस्वभावत्वात् परं कार्यं मोक्षस्तमिच्छता । नियतं शाश्वतमित्यर्थः । तच्चेच्छता परं कार्यं विषयसुखेषु निःस्पृहेण भवितव्यम् ॥१४८॥
(१४९ ) टीका - नि:स्पृहता चानित्यादि' भावनायत्तेत्याह- भावयितव्यमित्यादि ।
(१४८) (वि०) इतर इन्द्रियनियन्त्रणमाचष्टे - सर्वार्थेष्विति । सर्वार्थेषु - शब्दादिषु, कीदृशेषु ?-इन्द्रियैः सङ्गताः - इन्द्रियाणां गोचरतां गतास्तेषु, तथा वैराग्यमार्गविघ्नेषुसम्यग्ज्ञानक्रियान्तरायेषु, किमित्याह - परिसङ्ख्यानं - तत्त्वावलोचनं कार्यं, यथा एते शब्दादय इत्वरा आयतावहिता इति ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानं विधेयं । कस्मात् पुनः परिसङ्ख्यायन्ते गोचरमागताः शब्दादय इति ? - कार्यं-प्रयोजनं परं प्रकर्षवद् मोक्षपदप्राप्तिलक्षणमिच्छता - अभिलषता नियतंशाश्वतम् ॥१४८॥ ॥ इत्याचाराधिकारः ॥८॥
(१४९ ) (वि० ) तच्चेच्छता भावना भाव्या इत्याह- भावयितव्यमिति । निर्जरणेति ।
( १४८ ) ( अव० )—–'शब्दादिषु सर्वेष्वर्थेषु सचि [ त्ताचि ]त्तमिश्रेषु, शरीरेन्द्रियसङ्गार्हेषु, संसारविरक्तिः, परिसङ्ख्यानं परिगणनं परिहरणं, कार्यं तद्विषयं परं मुक्त्यादिकं शाश्वतमिच्छता साधुनेति योगः ॥१४८॥
(१४९ ) ( अव० )-भावयितव्यमहर्निशं चिन्तनीयमभ्यसनीयम्, 'अनित्यतां, अशरणत्वं