________________
प्रशमरतिप्रकरणम्
निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च ।
बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ॥१५०॥ भावयितव्यमहर्निशं चिन्तनीयमभ्यसनीयम् । किं तदनित्यत्वं ? सर्वस्थानान्यशाश्वतानि, संसारे नास्ति किञ्चिन्नित्यमिति । तथाऽशरणत्वं जन्मजरामरणाभिभूतस्य नास्ति क्वचिदपि शरणं । तथा एकत्वभावना एक एवाहमित्यादिका । तथाऽन्यत्वभावना अन्य एवाहं स्वजनकेभ्यो धनधान्यहिरण्यसुवर्णादेः शरीरकाच्चेति । तथाऽशुचित्वभावना आद्युत्तरकारणाशुचित्वादिका । तथा संसारभावना माता भूत्वा रेइत्यादिका । तथा कर्माश्रवभावना आश्रवद्वाराणि विभृतानि कर्माश्रवन्तीति विभावयेत् तस्मात् स्थगनीयानि इति । ५तथा संवरविधिराश्रवद्वारनिरोधः स्थगनं निरुद्धेष्वाश्रवद्वारेषु कर्मागमनिरोधः कृतो भवति ॥१४९॥
(१५०) टीका-निर्जरणेत्यादि । तथा निर्जराभावना निरुद्धेषु आश्रवद्वारेषु पूर्वोपात्तस्य कर्मणस्तपसा क्षयो भवतीति । तथा लोकविस्तरभावना ऊर्ध्वाधस्तिर्यग्लोकेषु भ्रान्तमनादौ संसारे सर्वत्र च १मृतं जातं चेति चिन्तयेत् । स्वाख्यातधर्मचिन्तनं क्षमादिदशलक्षणको धर्मः शोभन आख्यातो निर्दोषः भव्यसत्त्वानुग्रहायेति भावयेत् । बोधेश्च दुर्लभता भावनीया मनुष्यजन्मकर्मभूम्यार्यदेशकुलकल्पतायुरुपलब्धौ सत्यामपि सम्यक्त्व
भावयितव्यं-चिन्तनीयम् । किं तत् ?-अनित्यत्वं १, तथा अशरणत्वं-जन्माद्यभिभूतस्य नास्ति त्राणं, २ तथैकताऽन्यत्वे-तत्रैकत्वम्-एक एवाहमित्यादि ३ अन्यत्वम्-अन्य एवाहं स्वजनेभ्यः ४ अशुचित्वं शुक्रशोणितादीनामादिकारणानामशुचिरूपत्वात् ५ संसार इति भवभावना 'माता भूत्वा' इत्यादिका ६ कर्माश्रवश्च संवरश्च कर्माश्रवसंवरौ तयोविधिः, तत्र कर्माश्रवविधिना आश्रवद्वाराणि विवृतानि कर्माश्रवन्तीति भावयेत् ७ संवरविधिश्चाश्रवद्वाराणां स्थगनमिति ८ ॥१४९।।
(१५०) (वि०) सुष्ठ्वाख्यातः स्वाख्यातो धर्मश्चासौ स्वाख्यातश्च धर्मस्वाख्यातः, निर्जरणं लोकविस्तरश्च धर्मस्वाख्यातश्च निर्जरणलोकविस्तरधर्मस्वाख्याताः तेषां, तत्त्वचिन्ताश्च निर्जरण लोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताः । तत्र निर्जरणं-तपसा कर्मक्षपणं ९ लोकविस्तरो-लोकायामादिः
जन्माद्यभिभूतस्य नास्ति किञ्चिच्छरणं । एक एवाहं इत्याद्येकत्वं । अन्य एवाहं स्वजनादिभ्यः । शुक्रशोणितादीनामादिकारणानां शरीरस्याशुचित्वं । संसार इति माता भूत्वा भगिनीत्यादि भवभावना । आश्रवद्वाराणि विवृतानि कर्माश्रवः । आश्रवद्वारपिधानं संवरः ॥१४९॥
(१५०) (अव०)-कर्मणां क्षपणोपायो निर्जरणं, लोकायामादि लोकविस्तरः, शोभनोऽयं धर्मस्तत्त्वतः परमार्थतश्चिन्ता धर्मस्वाख्याततत्त्वचिन्ता, बोधेः सुदुर्लभत्वं चेति प्रकटम् ॥१५०॥