________________
प्रशमरतिप्रकरणम्
इष्टजनसम्प्रयोगर्द्धिविषयसुखसम्पदस्तथारोग्यम् । देहश्च यौवनं जीवितञ्च सर्वाण्यनित्यानि ॥ १५१ ॥
जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥१५२॥
९५
ज्ञानाचरणानि बोधिस्तस्य दुर्लभत्वं अहर्निशं भावयेत् । एवमेता द्वादश भावनाः सततमनुप्रेक्ष्याः ॥१५०॥
(१५१) टीका - सम्प्रत्येकैकया कारिकया भावनामेकैकां कथयति । तत्र प्रथमा भावनाऽनित्याख्या तद्दर्शयन्नाह ' - इष्टजनेत्यादि । इष्टेन जनेन सह संयोगोऽनित्यः । ऋद्धिः सम्पद्विभूतिः साप्यनित्या । विषयाः शब्दादयस्तज्जनिता सुखसम्पदोऽनित्या | आरोग्यं नीरोगता तदप्यनित्यम्। देहः शरीरकं आहारस्नानपानाच्छादनानुगृहीतमेतदप्यनित्यम् । यौवनमपि कतिपयदिवसरमणीयम् । जीवितमप्यकाण्डभङ्गुरम् । एवमेतत्सर्वमनित्यमिति भावयतो न क्वचित् स्नेहः समुपजायते । निःसङ्गश्च मोक्षचिन्तायामेव व्याप्रियत इति ॥ १५१ ॥
I
( १५२ ) टीका-अशरणभावनामधिकृत्याह - जन्मजरामरणेत्यादि । जन्मोत्पत्तिः । जरा वयोहानिः । मरणं १ प्राणत्यागः । एभ्यो भयानि तैरभिद्रुतेऽभिभूते । व्याधयो ज्वरातीसारहृद्रोगादयः । वेदनाः शरीरजा मनोभवाश्च । व्याधिवेदनाग्रस्ते व्याधिवेदनाभिगृहीते
१० धर्मस्वाख्यातश्च-शोभनोऽयं धर्मो भव्यहिताय जिनैः कथितः, एषां तत्त्वचिन्तनानि ११ बोधेः सुदुर्लभत्वं चेति १२ भावना द्वादश विशुद्धा इति स्पष्टम् ॥१५०॥
( १५१ ) ( वि० ) तत्रानित्यत्वमाह - इष्टेति । इष्टजनसम्प्रयोगश्च ऋद्धिसम्पच्च विषयसुखसम्पच्च, सम्पच्छब्दः प्रत्येकं सम्बध्यते, ता अनित्याः, तथा आरोग्यादीनि सर्वाण्यनित्यानीति ॥१५१॥
(१५२) (वि० ) अशरण भावनामाह - जन्मेति । लोके क्वचिन्नास्ति शरणमिति योगः । कीदृशे ? - अभिद्रुते-अभिभूते । कैः ? - जन्मजरामरणेभ्यो भयानि जन्मजरामरणभयानि तैः, तथा
(१५१) (अव० )—– इष्टजनसम्प्रयोगश्च ऋद्धिसम्पच्च विषयसुखसम्पच्च सम्पच्छब्दः प्रत्येकं योज्यः ॥१५१॥
(१५२) (अव०)–अभिद्रुतेऽभिभूते ॥१५२॥