________________
९६
एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥१५३॥
प्रशमरतिप्रकरणम्
अन्योऽहं स्वजनात् परिजनाच्च विभवाच्छरीरकाच्चेति । यस्य नियता मतिरियं न बाधते तं हि शोककलिः ॥ १५४॥
लोके प्राणिसमूहे । जिनवरा जिनप्रधानास्तीर्थङ्करा इत्यर्थः । तेषां वचनं वाग्योगस्तत्प्रति'पादितोऽर्थस्तमादाय क्षायोपशमिकभाववर्तिभिर्गणधरैर्दृष्टं द्वादशाङ्गं प्रवचनं, तन्मुक्त्वाऽन्यत्र नास्ति शरणं परित्राणमिति ॥ १५२ ॥
(१५३) टीका-एकत्व भावनामधिकृत्याह - एकस्येत्यादि । एकस्येत्यसहायस्य । जन्म च मरणं च । न खल्वस्य जायमानस्य म्रियमाणस्य वा कश्चित्सहायोऽस्ति । गतयो नरकाद्या मरणोत्तरकालं नरकादिगतिषु स्वकृतकर्मफलमनुभवतो नास्ति कश्चिदवसरः । शुभा देवमनुष्यतिर्यग्योनयः । नरकगतिरशुभा । भवो जन्म । भव एवावर्तः संसारार्णवो यत्र प्रदेशे भ्राम्यदास्ते जलं तत्रैव भयावर्तो । जीवस्यापि तत्र तत्र जन्ममरणे समनुभवतो भवावर्तः । तस्मादाकालिकं अकालहीनं । हितमेकेनैवात्मनः कार्यम् । हितं संयमानुष्ठानं तत्प्राप्यो वा मोक्षोऽत्यन्तहितम्, एकेन असहायेनात्मना कर्तव्यमिति ॥१५३॥
( १५४ ) टीका-अन्यत्व भावनामधिकृत्याह - अन्योऽहमित्यादि । स्वो जनः स्वजनो मातापित्रादिः पत्नीपुत्रादिश्च । अस्मादहमन्यो विभिन्नः पृथक्कर्मा । परिजनो दासदासीप्रभृतिः ।
व्याधिवेदनाग्रस्ते । ततः किं ? - नास्ति न विद्यते । किं तत् ? - शरणं त्राणं । क्व ? - अन्यत्र | कस्मात् ? - जिनवरवचनात् सर्वज्ञागमादिति ॥ १५२ ॥
(१५३) (वि०) एकत्व भावनामाह - एकस्येति । एकस्य जीवस्य जन्ममरणे भवत इति शेषः । तथा गतयश्च शुभाशुभाः, तत्र देवमनुष्यगती शुभे नरकतिर्यग्गती अशुभे भवतः । क्व ? - भवावर्ते- संसारे पुनःपुनर्भ्रमणे । तस्मादाकालिकं- सदाभावि हितं - पथ्यमेकेनैव जीवेनात्मनः-स्वस्य कार्यं करणीयं, तच्च हितं संयमानुष्ठानमित्यर्थ इति ॥ १५३ ॥
(१५४) (वि० ) अन्यत्वमाह - अन्योऽहमिति । न बाधते - न पीडयति । कः ?
(१५३ ) ( अव० ) – आकालिकहितं सदाभाविशुभाचरणम्, एकेनैवात्मनाऽसहायेन 'स्वार्थे ॥१५३॥
(१५४) (अव० ) - स्वजनात् पित्रादेः, परिजनाद्दासादेः, विभवात्कनकादेः, शरीराद्देहाच्च ।