________________
प्रशमरतिप्रकरणम्
अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच्च । देहस्याशचिभावः स्थाने स्थाने भवति चिन्त्यः ॥१५५॥
अस्माच्च परिजनादन्य एवाहम् । विभवो धनधान्यादिः कनकरजतवास्त्वादि अस्मादन्योऽहं शरीरकमुपभोगाधिष्ठानं, तस्मादप्यत्यन्तविभिन्न एवाहम् । इत्थं यस्येयं बुद्धिनियता नक्तंदिनमालोचिका । न बाधते तं न पीडयति । हिशब्दो यस्मादर्थे । यत्तदोनित्याभिसम्बन्धाद् यस्मादेवं भावयन्न बाध्यते शोककलिना, तस्मादन्यत्वभावना कार्या ॥१५४॥
(१५५) टीका-अशुचित्वभावनामधिकृत्याह-अशुचिकरणेत्यादि । 'शुचिनोऽपि द्रव्यस्याशुचित्वकरणेऽस्ति सामर्थ्य शक्तिर्देहस्य । कर्पूरचन्दनागरुकुङ्कमादिद्रव्यं देहसम्पर्कादशुच्येव जायते । तस्मादशुचिकरणसामर्थ्यादेहस्याशुचित्वमनुचिन्तनीयम् । यथाह
एतावदेतदशुचि नाऽन्यत् किञ्चिन्न विद्यते ।
यथा कायः कलेरङ्ग, यद्वा तेनैव दूषितम् ॥ आद्युत्तरकारणाशुचित्वाच्च । आदिकारणं शुक्रशोणिते । उत्तरकारणं जनन्यभ्य३वहृतस्याहारस्य रसहरण्योपनीतस्य रसस्यास्वादनमत्यन्ताशुचि । एवमाधुत्तरकारणयोरशुचित्वादशुचिर्देह इति प्रतिक्षणमनुचिन्तनीयम् । स्थाने स्थाने इति शिर:कपालादिष्ववयवेषु चरणान्तेषु त्वगाच्छादितासृग्मांसमेदोमज्जास्थिस्नायुजालसन्तानबन्धेषु न क्वचिच्छुचिशोककलि:-कलिकालस्वरूपं, कं ?-तं जीवम् । हिशब्दः स्फुटार्थो यस्य नियता-निश्चिता, काऽसौ ?-मति:-बुद्धिरियमेषेति' अन्यतोल्लेखेन, अन्योऽहं स्वजनात्-पित्रादेः परिजनाद्दासादेविभवात्-कनकादेः शरीराद्-देहात्, एतेभ्यो भिन्नोऽहमिति ॥१५४।।
(१५५) (वि०) अशुचित्वमाह-अशुचीति । भवति-जायते चिन्त्यः-चिन्तनीयः । कः?-अशुचिभावः-जुगुप्सनीयत्वं । क्व?-स्थाने स्थाने-शिर:कपालादिषु । कस्य ?-देहस्यतनोः । कस्मात् ?-अशुचिकरणसामर्थ्यात्, शुचिनो' द्रव्यस्य कर्पूरादेरशुचिकरणे 'सामर्थ्यमस्त्येव । तथा आधुत्तरकारणाशुचित्वाच्च, कारणशब्दस्य प्रत्येकं योजनाद् आदिकारणोत्तरकारणयोरशुचित्वात्, तत्रादिकारणं शुक्रशोणितादि उत्तरकारणं तु जनन्याऽभ्यवहृतस्याहारस्य रसहरण्योपनीतस्य
तेभ्यो भिन्नोऽहं, पृथक्कर्मणि यस्य नियता नक्तंदिनमालोचिका । हिर्यस्मात् । शोककलिः= कलिकालस्वरूपम् ॥१५४॥
(१५५) (अव०)-कर्पूरादीनां वपुःसम्पर्कादशुचिकरणसामर्थ्यात् । शुक्रशोणिताद्याद्यकारणानामन्नपानाद्युत्तरकारणानामशुचित्वात् ॥१५५॥