SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५० प्रशमरतिप्रकरणम् नैकान् जातिविशेषानिन्द्रियनिर्वृत्तिपूर्वकान् सत्त्वाः । कर्मवशाद् गच्छन्त्यत्र कस्य का शाश्वती जातिः ॥८२॥ रूपबलश्रुतमतिशीलविभवपरिवर्जितांस्तथा दृष्ट्वा । विपुलकुलोत्पन्नानपि ननु कुलमानः परित्याज्यः ॥८३॥ भवपरिवर्तेत्यादि। भवो नारकादिजन्म तस्य परिवर्तः परिभ्रमणं, नारको भूत्वा तिर्यग्योनौ मनुष्यजातौ वा जायते स्वकर्मवशात् । भूयश्चैकेन्द्रिय ेद्वित्रिचतुःपञ्चेन्द्रियजातावुत्पद्यते । तत्रैकेन्द्रियाणां स्वस्थाने शर्करावालुकादिभेदा बहवः । एवमप्तेजोवायुवनस्पतीनामपि यावन्त्यश्च योनयस्तावन्त्येव जातिशतसहस्राणि । तथा देवानामपीति । अत एव चतुरशीतियोनिलक्षः संसारः । स चोत्पद्यमानो हीनोत्तममध्यमेषु कुलेषु जन्म लभते । एवंविधं चाऽसमञ्जसं संसारमवगम्य ज्ञात्वा को नाम विद्वान् जातिमदमालम्बेत ? ॥८१॥ (८२) टीका - एतदेव 'स्पष्टतरमाचष्टे - नैकानिति । जातिविशेषाननेकसङ्ख्यानिन्द्रियनिर्वृत्तिपूर्वकान् । इन्द्रियनिर्वृत्तिः २ पूर्वं कारणं येषां जातिविशेषाणाम् । एकस्मिन्निन्द्रिये स्पर्शनाख्ये निर्वृत्ते एकेन्द्रियजातिः । स्पर्शनरसननिर्वृत्तौ द्वीन्द्रियजातिः । स्पर्शनरसनघ्राणनिर्वृत्तौ त्रीन्द्रियजातिः । स्पर्शनरसनघ्राणचक्षुर्निर्वृत्तौ चतुरिन्द्रियजातिः । स्पर्शनरसनघ्राणचक्षुः श्रोत्रनिर्वृत्तौ पञ्चेन्द्रियजातिः । स्वकर्मवशाद् गच्छन्ति अत्र कस्य का शाश्वता जाति: ? तस्मान्न युक्तो जातिमदः ॥८२॥ (८३) टीका–कुलमदव्युदासार्थमाह-रूपेति । १ पित्रन्वयः कुलं तच्च विस्तीर्णं भवपरिवर्ते-नारको भूत्वोद्धृत्य तिर्यग् मनुष्यो वा भवतीत्यादिपरिभ्रमणरूपे जातीनाम्एकेन्द्रियजातिप्रभृतीनां कोटिशतसहस्रेषु 'कोटिलक्षेषु मध्ये हीनोत्तममध्यत्वं जघन्यप्रधानमध्यवर्तिभावं ज्ञात्वेति सम्बन्धः । ततः किम् ? - को जातिमदं बुधः कुर्यादिति व्यक्तमिति ॥ ८१ ॥ (८२) (वि० ) नैकानिति । गच्छन्ति यान्तीति क्रिया । के ? सत्त्वाः । कान् ? नैकान्प्रचुरान् । जातिविशेषान्-एकेन्द्रियजात्यादीन्' । कीदृशान् ? - इन्द्रियनिर्वृत्तिः-करणनिष्पत्तिः पूर्वम्आद्यं येषां ते तथा तान् । शेषाद्वा (कप्रत्ययः) । कुतः ? - कर्मवशात्-स्वकीयादृष्टपरतन्त्रतया गच्छन्तीति योजितमेव । अत्र - भवे कस्य - सत्त्वस्य का ?, न काचित् शाश्वती - स्थिरा जातिरिति ॥८२॥ (८३) (वि०) अथ कुलमदव्युदासार्थमाह-रूपेति । रूपादिभिः पूर्वोक्तै : (८२) (अव० )—–'नैकान्- प्रचुरान्, एकेन्द्रियजात्यादीन् इन्द्रियनिर्वृत्तिः पूर्वकारणं येषाम् ॥८२॥ (८३) (अव० ) - शीलमाचारः, शेषाणि प्रतीतानि निश्चयेनैव ॥८३॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy