________________
प्रशमरतिप्रकरणम्
यस्याशुद्धं शीलं प्रयोजनं तस्य किं कुलमदेन ? । स्वगुणाभ्यलङ्कृतस्य हि किं शीलवतः कुलमदेन ॥८४॥ कः शुक्रशोणितसमुद्भवस्य सततं चयापचयिकस्य ।
रोगजरापाश्रयिणो मदावकाशोऽस्ति रूपस्य ? ॥८५॥ लोकख्यातम् । तत्र चोत्पन्नो रूपपरिहीणकः पुरुषो योषिता विरूपा यस्यावयवा
हुण्डवामनादयः । बलं शारीरं, तेन परिहीणः सर्वस्य परिभूतः । श्रुतेन परिहीणोऽत्यन्तमूर्खः निकृष्टो मातृकामपि न जानाति । मतिर्बुद्धिः सापि हिताहितप्राप्तिपरिहारक्षमा नास्तीति तया परिहीणकः । शीलं सदाचारता द्यूतपरदारानृतभाषणतस्करत्वनिष्ठुरत्वादिपरित्यागलक्षणम् । विभवो धनधान्यकनकरजतादिसम्पत् । विपुलेषु कुलेषूत्पन्नानपि जीवान् विरूपकादीनवलोक्य । ननु नियमेनैव कुलमानो गर्वः परिहर्तव्यः, गर्वावकाशाभावादेव ॥८३॥
(८४) टीका-अपि च यस्याशुद्धं शीलमित्यादि । शीलमेव यस्योपहतमसदाचारानुष्ठानात् । तस्यान्याय्य एव कुलमदः, प्रयोजनाभावात् । शुद्धे तु शीले भवतु नाम गर्वः । दुःशीलस्य हि गर्वो दौःशील्यमेव संवर्द्धयति । स्वगुणा २रूपवत्त्वश्रुतबुद्धिविभवादयो यस्य सन्ति, स तैरेवालङ्कृतोऽतः शीलवतोऽपि न किञ्चित् कुलमदेनेति फल्गु कुलमद इति ५परिहारार्हः ॥८४॥
(८५) टीका-रूपमदोऽपि न कार्य इति दर्शयति-कः शुक्रशोणितेत्यादि । शुक्रं पित्रा निसृष्टं वीर्यम् । शोणितं मातुर्योनौ स्फुटितस्फोटकस्रुतम् । एतस्माद् द्वयात् समुद्भवः षड्भिर्विवर्जितांस्तथा-तेन प्रकारेण अत्यन्तकारुण्यस्वरूपेण दृष्ट्वा-अवलोक्य । कीदृशानपि ?विपुलकुलोत्पन्नानपि-विस्तीर्णान्वयजातानपि ननु-निश्चयेन कुलमान:-अन्वयाहङ्कारः परित्याज्य:परिहरणीय इति ॥८३॥
(८४) (वि०) अपि च-यस्य जीवस्याशुद्धम्-असच्छीलं-'सदनुष्ठानं, प्रयोजनं तस्य किं कुलमदेनेति व्यक्तम् । पक्षान्तरमाह-स्वगुणैः शीलपरिपालनरूपैरभ्यलङ्कृतो-भूषितस्तस्य हिर्यस्मात्कि शीलवतः कुलमदेनेति ॥८४।।
(८५) (वि० ) अथ रूपमदपरिहारमाह-क इति । को मदावकाशोऽस्ति ?, न कोऽपि, गर्वप्रसरो न विद्यते । कस्य सम्बन्धी ?-रूपस्य । कीदृशस्य ?-शुक्रशोणिताभ्यां
(८४) (अव० )-रूपबलश्रुतबुद्धिविभवादयो गुणास्तैरलङ्कृतस्य सुशीलस्य१सदाचारस्य कुलमदेन२ ॥८४॥
(८५) (अव०)-चयो-वृद्धिरपचयो-हानिस्तौ यस्य । रोगजरापाश्रयिणो रोगजराधारस्य । एवं शुक्रादिसम्पर्कनिष्पन्ने देहे कः कतरो मदावकाशोऽस्ति ? ॥८५॥