________________
प्रशमरतिप्रकरणम्
४२
जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतमदान्धाः । क्लीबाः परत्र चेह च हितमप्यर्थं न पश्यन्ति ॥८०॥ ज्ञात्वा भवपरिवर्ते जातीनां कोटिशतसहस्त्रेषु । हीनोत्तममध्यत्वं को जातिमदं बुधः कुर्यात् ? ॥८१॥
(८०) टीका-एवमुवृत्ताः किमाचरन्तीत्याह-जातीति । जातिर्मात्रन्वयः । कुलं पित्रन्वयः । रूपं शरीरावयवसन्निवेशविशेषः । बलं शारीरं स्वजनबलं द्रव्यबलं चेति । लाभो १यथाप्रार्थितप्राप्तिः । बुद्धिश्चतुर्विधा औत्पत्तिक्यादिः । वाल्लभ्यकं लोकस्य प्रियपिण्डकत्वम् । २श्रुतमागमशास्त्रपरिज्ञानम् । एतदेव जात्यादिश्रुतान्तं मदहेतुत्वात् मदो गर्वः तेनान्धाः । यथान्धाश्चक्षुषा विकला न किञ्चित् प्रेक्षणीयं पश्यन्ति, तथा जात्यादिगर्वाष्टकान्धा हिताहितविचारणारहिताः । क्लीबा विषयगृद्धा द्रमका इवातृप्ताः । तन्मात्रपरितोषादिहपरलोकहितं न पश्यन्ति न कुर्वन्ति चेति ॥८०॥
(८१) टीका-संसारे परिभ्रमतां सत्त्वानां स्वकर्मोदयात्कदाचिद् ब्राह्मणजातिः कदाचिच्चण्डालजाति: कदाचित्क्षत्रियादिजातयः, न नित्यैकैव जातिर्भवतीति दर्शयन्नाह-ज्ञात्वा ।
(८०) (वि०) पुनः कीदृशाः ?-जात्याद्यष्टमदस्थानान्धाः तत्र जातिर्मातृसमुत्था, कुलं पितृसमुद्भवं, रूपं-सुशरीराकृतिः, बलं-शरीरप्राणः, लाभ:-प्राथितार्थप्राप्तिः बुद्धिः-१औत्पत्त्यादिकी मतिः, सा चैवम्
उप्पत्तिया वेणइया, कम्मया परिणामिया । बुद्धी चउव्विहा वुत्ता, पंचमा नोवलब्भए ॥१॥ इति । (औत्पत्तिकी वैनयिकी, कार्मिकी पारिणामिकी । बुद्धिश्चतुर्विधा प्रोक्ता, पञ्चमी नोपलभ्यते ॥)
वाल्लभ्यकं-प्रियत्वं, श्रुतम्-आगमस्तेषां तान्येव वा मदो-गर्वस्तेनान्धाः-हिताहितवस्तुविचारादर्शनाल्लोचनविकलास्ते तथा । तथा क्लीबा-अधृष्टाः । कस्मिन्नित्याह-परत्र च-परभवे इह च-अत्र जन्मनि हितमप्यर्थं न पश्यन्ति-उपकारकं सर्वज्ञवाग्रूपं नावलोकयन्तीति ॥८०॥ इति धारणार्थाधिकारद्वयम् ॥५-६॥
(८१) (वि०) अथैनामेवानन्तरोक्तमदस्थानप्रतिपादिकामार्यां विवरीषुर्जातिमदस्थानव्युदासमार्याषोडशकेन बिभणिषुः प्रथमं जातिमदत्यागमाह-ज्ञात्वेति । ज्ञात्वा-विज्ञाय
(८०)(अव०) जातिर्मातृसमुत्थाः, कुलं पितृसमुद्भवं, रूपं प्रतीतं, बलं शारीरं प्राणं, लाभ: प्रार्थितार्थप्राप्तिः, बुद्धिरौत्पत्तिक्यादिः, वाल्लभ्यकं प्रियत्वं, श्रुतमागमः, क्लीबाअसत्त्वाः॥८०॥
(८१) (अव०)-भवभ्रमण कोटिलक्षेषु ॥८१॥