________________
४८
यद्वत् कश्चित् क्षीरं मधुशर्करया सुसंस्कृतं हृद्यम् । पित्तार्दितेन्द्रियत्वाद्वितथमतिर्मन्यते कटुकम् ॥७८॥ तद्वन्निश्चयमधुरमनुकम्पया सद्भिरभिहितं पथ्यम् । तथ्यमवमन्यमाना रागद्वेषोदयोद्वृत्ताः ॥७९॥
प्रशमरतिप्रकरणम्
(७८ ) टीका- 'एनमेवार्थं दृष्टान्तेन समर्थयते - यद्वदिति । कश्चिदिति पित्तबहुल: प्रकुपितपित्तधातुः । क्षीरं गोमहिष्यादीनां स्वभावेनैव स्वादु, किं पुनर्मधुशर्करया युतम् । सुसंस्कृतमिति सुक्वथितं निरुपहतभाजनस्थम् । हृद्यं हृदयेष्टम् । पित्तार्दितत्वादिति पित्तेनार्दितो व्याप्तः पित्तोदयेनाकुलीकृतान्तःकरणः । वितथमतिर्विपरीतबुद्धिर्मन्यतेऽवगच्छति । कटुकमिति मधुरमपि सदिति ॥७८॥
(७९) टीका - सम्प्रति दृष्टान्तेन दान्तिकमर्थं समीकुर्वन्नाह - तद्वदिति । यद्यपि १दुःसहपरिषहेन्द्रियनिरोधसम्पातादादौ कटुकं तथापि निश्चये ३ पर्यन्तकाले मधुरमनेककल्याणयोगाद्रमणीयम् । अनुकम्पया सद्भिरतिशयप्राप्तैर्गणधरादिभिरभिहितं भव्यसत्त्वानामनुग्रहाय । तथ्यं पथ्यं च स्फुटमविसंवादि । तदवमन्यमाना अनाद्रियमाणा निराकरणबुद्ध्या । रागद्वेषोदयेन उद्वृत्ताः स्वच्छन्दचारिणो न हितोपदेशश्राविण इति ॥७९॥
( ७८ ) ( वि० ) अथैनमेवार्थं दृष्टान्तेन समर्थयते - यद्वदिति । यद्वत्-यथा कश्चित्-कोऽपि क्षीरं-दुग्धं मन्यते कटुकमिति सण्टङ्कः । कीदृशम् ? - मधुना - क्षौद्रेण युक्ता शर्करा - मत्स्यण्डी तया सुसंस्कृतमिति-क्वथितं कृतानेकसुगन्धिसंस्कारं वा । तथा हृद्यं - हृदयेष्टम् । कुत इत्याहपित्तार्दितेन्द्रियत्वात्-पित्तव्याप्तकरणत्वात्, वितथमतिः - विपरीतबुद्धिः मन्यते - जानाति कटुकम्अमृष्टं मधुरमपि सदिति ॥७८॥
(७९) (वि०) अथ दृष्टान्तेन दान्तिकमर्थं समीकुर्वन्नार्याद्वितयमाह - तद्वदिति । जातीति । तद्वत्-तथा हितमप्यर्थं न पश्यन्तीति सम्बन्धः । कीदृशमर्थम् ? - निश्चयमधुरंपरिणामसुन्दरं, तथा अभिहितं - प्रतिपादितं ढौकितमित्यर्थः । कैः ? - सद्भिः सत्पुरुषैः । कया ?अनुकम्पया-‘कृपया । तथा पथ्यं - योग्यं, तथा तथ्यं - सत्यम् । किं कुर्वाणास्ते ? - अवमन्यमानाअनाद्रियमाणाः । कीदृशाः ? - रागद्वेषोदयेनोद्वृत्ताः स्वच्छन्दचारिण इति ॥७९॥
विधिनोपयुज्यमानं वपुरप्यजरं करोति, अभयकरं क्षुद्रोपद्रवस्य समस्तस्य नाशविधायकम् ॥७७॥ ( ७८ ) ( अव० )—–१ सितोपलादिभिः सातिशायि माधुर्यमुपनीतं प्रकुपितपित्तधातुत्वाद्विपरीतबुद्धि' कटुकमिव जानाति ॥ ७८ ॥
( ७९ ) ( अव० )—–'यद्यपि परिणामसुन्दरमनाद्रियमाणाः, रागद्वेषोदेयोद्वृत्ताः दृप्ताः ॥७९॥