________________
प्रशमरतिप्रकरणम्
४७
ते जात्यहेतुदृष्टान्तसिद्धमविरुद्धमजरमभयकरम् । सर्वज्ञवाग्रसायनमुपनीतं नाभिनन्दन्ति ॥७७॥
(७७) टीका–ते जात्येति । ते एवं सुखद्धिरसगौरवेषु सक्ता, जात्या हेतवः= स्वाभाविकाः तथ्याः। उत्पत्तिः स्थितिर्व्ययश्च । यदस्ति तदुत्पद्यतेऽवतिष्ठते व्येति च । तस्मादुत्पत्तिमत्त्वात्स्थितिमत्त्वाद्विनष्टत्त्वाच्च सर्वे पदार्था नित्याश्चानित्याश्चेति सप्तभङ्गीमन्तो भवन्ति । दृष्टान्ताश्चाङ्गुल्यादयः । यथैकस्मिन्नेव कालेऽङ्गुली मूर्तत्वेनावस्थिता वक्रत्वेन विनष्टा ऋजुत्वेनोत्पन्ना उत्पादस्थितिव्ययवती । तथात्मादयः सर्वे पदार्था जात्यहेतुर्भिर्दृष्टान्तैश्च सिद्धं प्रतिष्ठितमव्याहतम् अविरुद्धमिति । न खलु नित्यानित्ययोर्विरोधोऽस्ति । द्रव्यार्थतया नित्यत्वमन्वयांशमङ्गीकृत्य घटकपालशकलादिषु सर्वत्राविशिष्टो' मृन्मृदिति प्रत्ययः । पर्यायास्तु घटकपालादयः पर्यायनयाङ्गीकरणात् तैरनित्यत्वम् । भिन्ननिमित्तत्वाच्च न सहावस्थानलक्षणो विरोधोऽस्ति । तस्मादविरुद्धम् । सर्वज्ञवाग्रसायनं सर्वज्ञवाग् द्वादशाङ्गं प्रवचनं तदेव रसायनं, यथा रसायनमुपयुज्यमानं निरुजं वपुः करोति वलीपलितवर्जितं, तथा भगवद्वचनमप्युपयुज्यमानं विधिना सकलरुजापहारि भवति जन्ममरणप्रपञ्चनिरासि 'चेति । अविद्यमाना जरा यत्र तदजरं विगतशरीरत्वाद्भयमपि मरणादिकमत एव तत्र नास्ति । जरामरणाभावस्य ́ कारणत्वादजरमभयकरमित्युक्तम् । उपनीतं ढौकितमर्थितं वा नाभिनन्दन्ति न परितुष्टास्तदुपयोगं कुर्वन्तीति ॥७७॥
(७७) (वि०) ते' च यत् कुर्वन्ति तदाह - त इति । त एवं सातादिगुरुका जात्यहेतुदृष्टान्तसिद्धादिगुणोपेतमपि सर्वज्ञवाग्रसायनमुपनीतं नाभिनन्दन्तीति सम्बन्धः । तत्र हेतवश्चसाध्याविनाभाविन उत्पत्तिमत्त्वादयः, दृष्टान्ताश्च - अङ्गुल्यादयः साध्यस्य उपमाभूताः, जात्याश्च-ते निष्कृत्रिमत्वात् प्रधाना हेतुदृष्टान्ताश्च जात्यहेतुदृष्टान्ताः तैः सिद्धं निष्पन्नं प्रतिष्ठितमव्याहतमित्यर्थः । यथा सन्ति जीवादयः पदार्था उत्पत्तिमत्त्वाद्विनाशवत्त्वात्स्थितिमत्त्वाच्च यथाऽङ्गुल्यादयो, यथाऽङ्गुलिरेकस्मिन्नेव काले मूर्तत्वेनावस्थिता वक्रत्वेन विनष्टा ऋजुत्वेन तूत्पन्नेत्युत्पादस्थितिव्ययवती वर्तते तथाऽऽत्मादयोऽपि सर्वे पदार्था इति । तथा अविरुद्धं सङ्गतं विरोधाभावात्, तथा न विद्यते जरा यत्र तदजरं, तथा अभयं करोतीत्यभयकरमित्येवं विशेषणचतुष्कोपेतं, किमत आहसर्वज्ञवागेव-जिनवचनमेव रसायनं - परमौषधं तत्तथा । अत्र भावना यथा रसायनं हेतुदृष्टान्तसिद्धं तथाऽविरुद्धं सम्यग् विधिनोपयुज्यमानं वपुरजरं करोति, वलीपलितविवर्जितमित्यर्थः तथा अभयकरं-क्षुद्रोपद्रवादिभीतिरहितम् । सर्वज्ञवागपि हेतुदृष्टान्तसिद्धाऽविरुद्धा सती सम्यगासेविता जरामरणभयापहन्त्री भवति इति ॥७७॥
( ७७ ) ( अव० )—–जात्या - अवितथा हेतवो 'दृष्टान्ता द्विविधचरितकल्पितोदाहरणानि तैः प्रसिद्धम्, अजरमपरापरप्रदानेऽप्यक्षीणम्, उपनीतं = दीयमानं, न बहु मन्यते रसायनमपि, अविरुद्धं