________________
४६
केचित्सातद्धिरसातिगौरवात् साम्प्रतेक्षिणः पुरुषाः । मोहात्समुद्रवायसवदामिषपरा विनश्यन्ति ॥७६॥
प्रशमरतिप्रकरणम्
यस्यासावजरामरस्तद्वन्निरुद्विग्नाः निर्भया मुक्ता एव अजरामराः सर्वसङ्गनिर्मुक्तास्तद्वदात्मानं मन्यन्ते, 'नाहं जरां प्राप्स्यामि न च मरणं,' स्वल्पकविषयसुखासक्तत्वादिति ॥७५॥
(७६) टीका - एतदेव प्रत्यवायादि दिदर्शयिषया स्पष्टतरमभिधत्ते - केचिदिति । केचिदेवाविदितपरमार्थाः । सातं सुखं सद्वेदनीयम् । ऋद्धिर्विभवः कनकरजतपद्मरागेन्द्रनीलमरकतादिमणिसम्पद्, गोमहिष्यजाविककरितुरगरथादिसम्पच्च । रसास्तिक्तकटुकषायाम्लमधुरलवणाख्याः । एतेषु सातादिषु गौरवमादरः । सुखार्थः २ सम्पदर्थः इष्टरसाभ्यवहारार्थश्चादरः। अतीव सुष्ठु गौरवम् । अतिगौरवाद्धेतोः । साम्प्रतमेव वर्तमानकालमेवेक्षन्ते नागामिनम् । त एवंविधाः पुरुषा मोहादज्ञानात् मोहनीयकर्मोदयाद्वा । समुद्रवायसवदामिषपरा विनश्यन्ति । मृतकरिकलेवरापानप्रविष्टमांसास्वादगृद्धकाकवत् । जलधिमध्यमध्यास्यमाने कलेवरे विनिर्गत्य तेनैवापानमार्गेण सकलं दिङ्मण्डलमवलोक्य विश्रान्तिस्थानमपश्यन् निलीयमानश्च पयसि निधनमुपगतः । आमिषपरा इति रसगौरवस्यैव प्रत्यवायबहुलतां दर्शयामास प्रकरणकारः । न तथा सातर्द्धिगौरवे बहुप्रत्यपाये यथा रसगौरवम् । मद्यमांसकुणपादिषु प्रवृत्तिः प्राणवधमन्तरेण दुस्सम्पाद्या ॥७६॥
शब्दादयस्तेषु सङ्गः-सम्बन्धः तस्माद्धेतोः किमित्याह- अजरामरवत् - जरामरणरहिता वयमिति विकल्पपरा लौकिकसिद्धा इव निरुद्विग्नाः - निर्भया वर्तन्ते । न कदाचिदस्माकं जरामरणादि भविष्यतीति मन्यन्त इति ॥ ७५ ॥
"
(७६) (वि०) एतदेव सदृष्टान्तं स्पष्टयन्नाह - केचिदिति । केचिदेवाविदितपरमार्थाः सातं-सुखम् ऋद्धिः-विभवः रसा - मधुरादय:, तेषु अतिगौरवम्-अत्यादरस्तस्माद्धेतोः साम्प्रतेक्षिणोवर्तमानकालदर्शिनः, त एवंविधाः पुरुषाः किम् ? - मोहाद् - अज्ञानात् समुद्रवायसवदामिषपरा विनश्यन्ति, मृतकरिकलेवरापानप्रविष्टमांसास्वादगृद्धकाकवत् वृष्टिजलपूरेण जलधिमध्यमागते कलेव निर्गत्य तेनैवापानमार्गेण सकलदिङ्मण्डलमवलोक्य विश्रामस्थानमपश्यन् निलीयमानश्च पयसि निधनमुपागत इति ॥७६॥
( ७६ ) ( अव० )—ऐहिकसुखमानिनः रसलाम्पट्यं सातं सुखम्, ऋद्धिर्विभवो, रसा= 'मधुरादयः, एतेषु गौरवं रसलाम्पट्यं तस्माद्धेतोर्वर्तमानकालदर्शिनः अविदिततत्त्वा, मोहाद्-अज्ञानात्, आमिषपरा इन्द्रियानुकूलविषयोपभोगपराः ॥७६॥