________________
प्रशमरतिप्रकरणम्
योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥७४॥ विनयव्यपेतमनसो गुरुविद्वत्साधुपरिभवनशीलाः । त्रुटिमात्रविषयसङ्गादजरामरवन्निरुद्विग्नाः ॥७५॥
तपोबलं तपसि कर्तव्ये शक्तिविशेषः । तपसस्तु निर्जरा फलं कर्मपरिशाटनम् । तस्मात् कर्मापगमात् क्रिया निवर्तते सैव फलं निर्जरायाः । क्रियानिवृत्तेनिरुद्धयोगस्यायोगित्वम् ॥७३॥
(७४) टीका-योगेति । योगनिरोधस्य फलं जन्मजरामरणप्रबन्धलक्षणाया १नारकादिभवसन्ततेरात्यन्तिकः क्षयः । जन्मादिसन्ततिक्षयाच्च मोक्षावाप्तिः । ऐकान्तिकात्यन्तिकादिगुणयुक्तं स्वात्मन्यवस्थानं मोक्षः । तस्मात्पारम्पर्यद्वारेण सर्वकल्याणानाम् २आश्रयो भाजनं विनयः सर्वकल्याणरूपो मोक्षः । अथवा गुरुशुश्रूषादिकल्याणाद् यावदयोगित्वं, भवसन्ततिक्षयश्च५, सर्वाण्येतानि कल्याणानि, एषां फलं मोक्ष इति ॥७४।।
(७५) टीका-ये पुनरविनीतास्तेषां कः फलविपाक इत्याह-विनयेति । उक्तलक्षणो विनयः तस्माद् व्यपेतं विगतं मनो येषां विनयव्यपेतमनसः । गुरूणामाचार्यादीनां विद्वांसोऽन्येऽपि चतुर्दशपूर्वाद्यर्थज्ञाः ज्ञानादिसाधनत्रयेण मोक्षमभिलषन्तः साधयन्तः साधवः । एषां परिभवोऽनादरो वन्दनाभ्युत्थानादि प्रतिपत्तेरकरणं तदेव च शीलं स्वभावो येषां त्रुटिमात्रविषयसङ्गात् त्रुटिरनन्तपरमाणुसंहतिलक्षणोऽल्पक: सवितृकिरणप्रकाशितवातायनादिषु भ्रमन् लक्ष्यते । तन्मात्रो विषयसङ्गः स्वल्पको निःसारः शब्दादिविषयेषु यः सङ्गस्तस्मादासक्तेः प्रत्यवायमागामिनमचेतयन्तः, अजरामरवन्निरुद्विग्नाः । जरा च मरश्च जरामरौ । अविद्यमानौ जरामरौ कर्मपरिशाटनं, तस्मात् क्रियानिवृत्तिः-अक्रियत्वं, क्रियानिवृत्तेरयोगित्वं-योगनिरोध इति ॥७३॥
(७४) (वि०) योगेति । सुगममिति ॥७४।।
(७५) (वि० ) ये पुनरविनीतास्तेषां स्वरूपमाह-विनयेति । विनयाद् व्यपेतं-नष्टं मनःअन्तःकरणं येषां ते तथा । तथा गुरुविद्वत्साधुपरिभवनशीला:-आचार्यपण्डितयतिपराभवस्वभावाः । त्रुटि:-अल्पशब्दवाच्यः पदार्थः कालविशेषो वा, स एव त्रुटिमात्रं, त्रुटिमात्राश्च ते विषयाश्च
(७४) (अव०) योगनिरोधः शैलेशीप्राप्तिरूपः, अतो विनय एव कार्यः ॥७४॥
(७५) (अव०)-विनयाद् व्यपेतं विगतं मनो येषां ते । त्रुटिमात्रमणुमात्रप्रायं, विषयः= शब्दादिस्तत्सङ्गादजरामरवत् सिद्धवन्निरुद्विग्ना=निर्भयाः ॥५॥