________________
४४
प्रशमरतिप्रकरणम्
विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः ॥७२॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात् क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥७३॥
कारस्य ४चापत्यस्य “अतो दुष्प्रतिकारा ' माता । न हि तस्याः प्रत्युपकारः शक्यते कर्तुम् । पितापि हितोपदेशदानेन शिक्षाग्राहणेन भक्तपरिधानप्रावरणादिनोपग्रहेणानुगृह्णानो दुष्प्रतिकारः । स्वामी राजादिर्भृत्यानां ग्रामनगरविषयताम्बूलपानदानादिना भवत्युपकारकः । भृत्यास्तु न तथा प्रत्युपकारसमर्थाः । प्राणव्ययेन ' महार्घं यद्यपि श्रियमानयन्ति स्वामिनो भृत्यास्तथापि पूर्वमकृतोपकाराणामेव भृत्यानामुपकारकः स्वामी, भृत्यास्तु कृतोपकाराः प्रत्युपकुर्वन्ति । गुरुराचार्यादिः, स च दुष्प्रतिकारः, सन्मार्गोपदेशदायित्वात् शास्त्रार्थप्रदानात् संसारसागरोतारणहेतुत्वाच्च ११ । १ २ इहामुत्र च परलोके सुदुर्लभतरः प्रतीकारो यस्य गुरोरिति सुष्ठु दुर्लभतरः प्रतीकार इति ॥ ७१ ॥
९
(७२) टीका-सम्प्रति विनयस्य पारम्पर्येण पर्यन्तवर्ति मोक्षाख्यं फलं दर्शयन्नाह— विनयफलमिति । विनयस्य फलं शुश्रूषा श्रोतुमिच्छा यदाचार्य उपदिशति तत् सम्यक् शुश्रूषते श्रुत्वा चानुतिष्ठति । गुरोः सकाशादाकर्ण्य किं फलमिहावाप्यतेऽत आह- गुरुशुश्रूषायाः फलं श्रुतज्ञानमागमज्ञानलाभ इत्यर्थः । ज्ञानस्य किं फलम् ? विरतिरास्रवद्वारेभ्यो निवृत्तिः । विरते: फलमाश्रवद्वारस्थगनम् । विरतौ सत्यामाश्रवद्वाराणि स्थगितानि भवन्ति । ततश्चाश्रवद्वारस्थगनात् संवरो जायते फलभूतः संवरात्मा भवति अपूर्वकर्मप्रवेशनिरोधात् ॥७२॥
टीका-संवरफलमिति । संवरफलं तपोऽनुष्ठानं प्राक्तनकर्मक्षपणार्थम् । तपसि बलं
चः समुच्चये । लोके-मर्त्यनिवहेऽस्मिन् - अत्र तत्रापि विशेषमाह - तत्र - तेषु चतुर्षु मध्ये गुरुरिह-अत्र जन्मन्यमुत्र च-परस्मिन् भवे सुदुष्करतरो - महाकष्टेनाप्यशक्यः प्रत्युपकारो यस्य स तथेति ॥७१॥
( ७२ ) ( वि० ) अथ विनयादेवोत्तरोत्तरफलमार्यात्रयेणाह - विनयेति । दृष्टमिति पदं वक्ष्यमाणं सर्वत्र योज्यम् । विनयफलं दृष्टम् । किम् ? - शुश्रूषा - श्रोतुमिच्छा, यदाचार्य उपदिशति तत् सम्यक् शुश्रूषते, श्रुत्वा चानुतिष्ठति । गुरुशुश्रूषाफलं श्रुतज्ञानम् - आगमलाभो, ज्ञानस्य फलं विरति:नियमो, विरतिफलम् आस्रवनिरोध- आस्रवद्वारस्थगनं, संवर इत्यर्थ इति ॥ ७२ ॥
(७३) (वि० ) संवरेति । संवरफलं तपोबलं - तपः सामर्थ्यम्, अथ तपसो निर्जरा फलं दृष्टं,
(७२) (अव० ) - शुश्रूषा श्रोतुमिच्छा यदाचार्य उपदिशति तत्सम्यक् श्रौति क्रिययोपयोगं च नयति ७२ (७३) (अव० ) - तपसोऽनशनादेर्बलं सामर्थ्यं संवरफलं निर्जरा कर्मपरिशाटिः ॥७३॥