________________
प्रशमरतिप्रकरणम्
धन्यस्योपरि निपतत्यहितसमाचरणघर्मनिर्वापी | गुरुवदनमलयनिसृतो वचनसरसचन्दनस्पर्शः ॥७०॥ दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥७१॥
४३
( ७० ) टीका - गुरौ चोपदिशति 'पुण्यवानहमिति य एवमनुग्राह्यो गुरूणां, 'बहुमन्तव्यमेव, नोद्वेगः कार्यः' इति दर्शयति- धन्यस्येति । धनं ज्ञानादि तल्लब्धा धन्यः पुण्यवान् । तस्योपरि निपतति । वचन सरसचन्दनस्पर्श इति वक्ष्यति । कीदृगसौ वचनसरसचन्दनस्पर्शः ? अहितसमाचरणघर्मनिर्वापी अहितमुत्सूत्रं समाचरणं क्रियानुष्ठानम् । अहितसमाचरणमेव घर्मस्तापविशेषस्तं निर्वापयत्यपनयति निरस्यति तच्छीलश्चेति । गुरुवदनमलयनिसृत इति । गुरोराचार्यादेर्वदनं मुखं तदेव मलयपर्वतस्तस्मान्निसृतो निर्गतः । वचनमेव सरसचन्दनं स्नेहोपबृंहितहितोपदेशगर्भं सरसं तदेव चन्दनं तस्य स्पर्शः । शीतो घर्मापनयनसमर्थः । मलये तु सरसचन्दनमार्द्रमभिनवच्छिन्नं तस्य स्पर्शः घर्मापहारी भवति सुतराम् । अथवा ४सरसश्चन्दनस्पर्शः । रसो द्रवता चन्दनपङ्कः सपानीय इत्यर्थः ॥७०॥
( ७१ ) टीका–एवं' हितोपदेशेनानुगृह्णतः शिष्यानाचार्यस्य कः प्रत्युपकारः शिष्येण विधेय इत्याह- दुष्प्रतिकाराविति । दुःखप्राप्यः २ प्रतीकारो दुष्कर इति वा दुष्प्रतिकारः । मातापितरौ तावद्दुष्प्रतिकारौ । माता तु जातमात्रस्यैवाभ्यङ्गस्नानस्तनक्षीरदानमूत्राशुचिक्षालनादिनोपकारेण वृद्धिमुपनयति ३० कल्यवर्ताद्याहारप्रदानेनोपकारवती अदृष्टपूर्वस्याकृतोप
( ७० ) (वि० ) गुरौ 'चोपदिशति सति एतत् परिभावयतो बहु मन्तव्यमेव, नोद्वेगः कार्य इति दर्शयन्नाह–धन्यस्येति । धन्यस्य - पुण्यवत उपरि निपतति च वचनसरसचन्दनस्पर्शः इति सम्बन्धः । कीदृशः ?–अहितसमाचरणघर्मनिर्वापी-अपथ्यासेवनतापापनोदनकर्ता गुरूणां वदनं वक्त्रं तदेव मलयः पर्वतस्तस्मान्निसृतो विनिर्गतो गुरुवदनमलयनिसृतो वचनं वाक्यं तदेव सरसचन्दनस्पर्शः सार्द्र श्रीखण्डस्पर्शनमिति ॥७०॥
( ७१ ) ( वि० ) किमित्येवं गुरुवचनमभिमन्यत इत्याह- दुष्प्रतिकाराविति । दुष्प्रतिकारौअशक्यप्रत्युपकारौ मातापितरौ भवत इति शेषः । तथा स्वामी - राजादिकः पोषकश्च गुरुः-धर्माचार्यः
( ७० ) (अव० )–अपथ्यसमाचरणं तापापनोदकर्ता गुरुमुखमलयाचलोद्भूतः २
॥७०॥
• कल्यवर्तः - प्रातरशनम् (अभि. चि. ४२५) ।