________________
४२
प्रशमरतिप्रकरणम्
न तथा सुमहाघैरपि वस्त्राभरणैरलङ्कृतो भाति । श्रुतशीलमूलनिकषो विनीतविनयो यथा भाति ॥८॥ गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरेण हितकाक्षिणा भाव्यम् ॥६९॥
(६८) टीका-न तथेति । अतिमहामूल्यैरपि वस्त्रादिभिर्विभूषितो यथा शोभते । (न तथा शोभते सुमहाय॑वस्त्राभरणभूषितः पुरुषः यथा शीलश्रुतभूषितः)। श्रुतमागमः । शीलं मूलोत्तरगुणभेदं चरणम् । तयोनिकष:३ परीक्षास्थानम् । यदि विनीतस्ततस्तस्य तच्छ्रुतं, यदि च विनीतस्ततः शीलम्, अन्यथा मूल् दुःशील एव च स्यात् । सुवर्णपरीक्षापाषाणको निकष इति प्रतीतम् । तद्वच्छूतशीलपरीक्षा विनयनिकषे कर्तव्ये विशेषेण नीतः प्रापितो विनयो येनासौ विनीतविनय इति ॥६८॥ ।
(६९) टीका-अपि च-गुर्वायत्ता इति । गृणन्ति प्रतिपादयन्ति शास्त्रार्थमिति गुरवः । तदायत्ताः शास्त्रारम्भाः सूत्रपाठप्रवृत्तिरर्थश्रवणप्रवृत्तिश्च । गुर्वायत्ताः कालग्रहणस्वाध्यायप्रेषणोद्देशसमुद्देशानुज्ञापरिकराः शास्त्रारम्भाः सर्वेऽपीत्युच्यन्ते । तस्मात् गुर्वाराधनपरेणेति गुरोराराधनमहर्निशं पादसेवा । सम्यक्क्रियानुष्ठानं निष्ठ्यूतमल्लकढौकनं दण्डकग्रहणं, ३तत्पृष्ठतो गमनं, निविचारं तदभिहितानुष्ठानमित्याद्याराधनमभिमुखीकरणं तत्परेणेति तदुपयुक्तेन भवितव्यमिति ॥६९॥
(६८) (वि०) अस्यैवार्थस्योपचयार्थमाह-नेति । न च-नैव तथा भाति-शोभते इति सम्बन्धः । कै: ?-वस्त्राभरणैः । कीदृशैः ?-सुमहाधैरपि अलङ्कृतो-विभूषितो यथा भाति । कीदृशः पुमान् ?-श्रुतम्-आगमः, शीलं-मूलोत्तरगुणभेदं चरणं तयोर्मूलनिकषो-निकष इव, 'निकषपट्टक:-परीक्षास्थानं, विनीतो-विशेषेण प्राप्तो विनयो येन स तथेति ॥६८।।
(६९) (वि० ) अपि च-गुर्वायत्तेति । गुर्वायत्ता-धर्माचार्याद्यधीना, यस्माद्-यतः, के ? -शास्त्रारम्भाः, आचार्यादिसूत्रार्थग्रहणलक्षणाः, भवन्ति-जायन्ते, सर्वेऽपि-समस्ता अपि, तस्मात्तेन गुर्वाराधनपरेण-आचार्याद्यासेवापरेण हितकाङ्क्षिणा-मोक्षाभिलाषिणा शिष्येण भाव्यं-भवितव्यमित्यर्थः ॥६९।।
(६८) (अव०)-आगमव्रतमूलनिर्णयं प्रति निकषः कषपट्टसमानः परीक्षास्थानमित्यर्थः । १विशेषेनी( ने )त:=प्राप्तो विनयो येन स तथा ॥६८॥
(६९) (अव०) हितकाक्षिणा मोक्षाभिलाषिणा शिष्येण ॥६९॥