________________
प्रशमरतिप्रकरणम्
कुलरूपवचनयौवनधनमित्रैश्वर्यसम्पदपि पुंसाम् । विनयप्रशमविहीना न शोभते निर्जलेव नदी ॥६७॥
४१
शास्त्रागमाद्विना नापरं हितमस्ति । न च शास्त्रलाभो भवत्यविनयस्य । आचार्यादिशुश्रूषया विनीतेन शास्त्रं प्राप्यते । तस्माच्छास्त्रागमलाभमिच्छता शास्त्रागमलिप्सुना विनीतेन भवितव्यमिति ॥६६॥
(६७) टीका-सत्स्वप्यनेकेषु गुणेषु पुंसां विनय एव भूषणं परं नान्वयरूपसौभाग्यादीति दर्शयन्नाह - कुलेति । १ विशिष्टोऽन्वयः कुलं क्षत्रियादि । रूपं शरीरावयवानां लक्षणान्वितः सन्निवेशविशेषः । वचनं मधुरं प्रियभाषित्ववाग्मित्वादि । यौवनं यूनो भावः । युवा मन्दरूपोऽपि शोभते प्रायो यौवनगुणादेव । धनं हिरण्यसुवर्णमणिमुक्ताप्रवालादि ३गोमहिष्यजाऽविकादि वा । मित्रं स्नेहवान् पुरुषो विश्रम्भस्थानम् । ऐश्वर्यमीश्वरभावः प्रभुत्वम् । सम्पच्छब्दः प्रत्येकमभिसम्बन्धनीयः । कुलसम्पद्रूपसम्पदैश्वर्यसम्पदित्यादि । सम्पत् प्रकर्षविशेषः। एषापि कुलादिसम्पन्न भ्राजते पुरुषाणां, विनयप्रशमविहीनत्वात् । विनयोऽभ्युत्थानासनप्रदानाञ्जलिप्रग्रहादिरुपचाराख्यः । प्रशमो माध्यस्थ्यमौदासीन्यम् । आभ्यां विनयप्रशमाभ्यां रहिता न शोभते । निर्जलेव नदी । यथा सरिज्जलशून्या हंससारसक्रौञ्चचक्रवाककुलैरासेव्यमाना न भ्राजतेऽतिदीर्घगर्तामात्रमरमणीयमुद्वेजकमेव भवतीत्येवं विनयरहितः पुमानिति ॥६७॥
'शास्त्रागमस्तस्मादृते-विना न हितमस्ति । न च शास्त्रमस्ति विनयमृते । तस्माच्छास्त्रागमलिप्सुनाशास्त्रागमलाभमिच्छता विनीतेन भवितव्यमिति ॥ ६६ ॥
(६७) (वि० ) सत्स्वपि कुलादिषु अविनीतो न शोभत इत्याह- कुलेति । कुलम् - उग्रादि, रूपं-शरीरावयवसमताजनितं सौन्दर्यं वचनं - मधुरत्वादिगुणभाक्, यौवनं - 'युवावस्थानं, धनंहिरण्यादि गणिमादि चतुष्पदादि वा, मित्रं - सखा, ऐश्वर्यम्-ईश्वरभावः, प्रभुत्वमित्यर्थः, ततो द्वन्द्वसमासस्तेषां सम्पत्-प्रकर्षविशेषः । सम्पच्छब्दः प्रत्येकं योज्यते । साऽपि पुंसां - नृणां कीदृशी ? - विनयप्रशमविहीना न शोभते न भाति । केवेत्याह-निर्जला - जलहीना नदीव - सरिदिवेति ॥६७॥
(६७) (अव० )—– 'कुलमुग्रादि, वचनं माधुर्यादिगुणमत्, शेषाणि प्रतीतानि, सम्पच्छब्दः प्रत्येकं योज्यते ॥ ६७॥