________________
प्रशमरतिप्रकरणम्
आरोग्यायुर्बलसमुदयाश्चला वीर्यमनियतं धर्मे । तल्लब्ध्वा हितकार्ये मयोद्यमः सर्वथा कार्यः ॥६५॥ शास्त्रागमादृते न हितमस्ति न च शास्त्रमस्ति विनयमृते । तस्माच्छास्त्रागमलिप्सुना विनीतेन भवितव्यम् ॥६६॥
(६५) टीका-न च निर्द्वन्द्वं मनुष्यजन्म, यस्मात्-आरोग्येति । नीरुजत्वमारोग्यं तच्चलमनित्यमित्यर्थः । नीरुजोऽपि रोगान् 'लभते सनत्कुमारादिवत् । आयुरपि बिन्दोराधानात् प्रभृति गर्भकौमारयौवनस्थविरावस्थासु प्रतिक्षणं ३क्षययुक्तमध्यवसानादिभिश्च प्रकारैः सप्तभिर्भेदमुपैति । बलं प्राण उत्साहो वीर्यान्तरायक्षयोपशमजः सामर्थ्यविशेषः । स च बलवतो दृष्टः । पुनस्तस्यैव दुर्बलावस्थायां न सम्भवतीत्यनित्य एव । समुदया धनधान्यादिनिचयाः क्षणभङ्गराः । वीर्यं चोत्साह: परिषहजयादौ तदनियतं विनश्वरम् । धर्मे क्षान्त्यादिके। ५तत्प्राप्य । हितकार्ये हितं ज्ञानादि तदेव कार्यम् । मयोत्साहः सर्वथा सर्वप्रकारमविश्रान्त्या कार्य इति ॥६५॥
(६६) टीका-किं पुनस्तद्धितमित्याह-शास्त्रागमादिति । शास्त्रलक्षणमुपरिष्टाद्वक्ष्यते शास्वीतीत्यादौ । शासनमुपदेशः । शासनादुपदेशदानात्त्राणाच्च शास्त्रं भगवतो मुखपङ्कजादर्थनिर्गमः, गणधरास्यकमलेभ्यः सूत्रनिर्गमः, उभयं चैतच्छास्त्रशब्दवाच्यं शास्त्रमेवागमः शास्त्रागमः । गणधरप्रभृत्याचार्यपरंपरया आगत इत्यागमः । शास्त्रागमादृते
(६५) (वि०) किञ्च-आरोग्येति । आरोग्य-नीरोगता, आयुः-जीवितम्, बलंसामर्थ्यम्, 'समुदयो-लक्ष्मीस्ततो द्वन्द्वस्ते चला:-चञ्चलाः, वीर्यम्-उत्साहस्तदनियतं-विनश्वरं धर्मेक्षान्त्यादिके, तत्-प्राक्तनम् आरोग्यादि लब्ध्वा-प्राप्य हितकार्ये-शास्त्राध्ययनादौ मयोद्यम-उत्साह: सर्वथा-सर्वप्रकारैः कार्यो-विधातव्य इति ॥६५॥
(६६) (वि०) हितकार्ये शास्त्राध्ययनादावित्युक्तं, तच्च विनयमृते न भवत्यतो विनीतेन भाव्यमित्यावेदयन्नाह-शास्त्रागमादिति । शास्त्रम्-आचारादि गुरुपरम्परागतं तदेवागमः
(६५) (अव०)-समुदया धनधान्यादिनिचयाः । धर्मे=१क्षान्तिप्रभृतिके, तदारोग्यादि २सर्वं लब्ध्वा प्राप्य हितकार्ये-शास्त्राध्ययनादौ ॥६५॥
(६६) अव०-शास्त्रमिहलौकिकं, १आगमः परलौकिकः । अथवा शास्त्राणा मागम आगमनं तल्लाभमिच्छता ॥६६॥