________________
प्रशमरतिप्रकरणम्
वैराग्यमार्गसम्प्रस्थितस्य संसारवासचकितस्य । स्वहितार्थाभिरतमतेः शुभेयमुत्पद्यते चिन्ता ॥ ६३॥ भवकोटीभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे । न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥६४॥
३९
सायस्य । समये सिद्धान्ते । अन्योन्यं परस्परं द्वयोर्विशेषयोरयमुत्तरः प्रधानम्, “अमुष्मादप्ययं विशेषः प्रधानतर इत्यादि विशेषमभिप्रायं पश्यतो भावनामयेन ज्ञानेनेति ॥६२॥
(६३) टीका - वैराग्येति । वैराग्यपथप्रस्थितस्य सम्यग्दर्शनादित्रयं वैराग्यमार्गः । संसारवासाच्चकितस्य त्रस्तस्येत्यर्थः । स्वहितमैकान्तिकादिगुणयुक्तं मुक्तिसुखं तदेवार्थः स्वहितार्थे आभिमुख्येन रता बद्धा प्रीतिर्मतिर्यस्य तस्यैवंप्रकारस्य । शुभेयमुत्पद्यते चिन्ता । इयमिति वक्ष्यमाणा । निर्जराहेतुत्वाच्छुभा जायते चिन्ता । अत्र कुलकपरिसमाप्तिः ||६३ ||
(६४) टीका - तामेव चिन्तां स्पष्टयन्नाह - भवकोटीभिरिति । कोटीशब्दः सङ्ख्यावाची। स चानन्तसङ्ख्यायाः सूचकः । भवा नरकतिर्यग्देवाख्यास्तेषां बह्वीभिः कोटीभिरनन्ताभिरतीताभिरपि न सुलभं दुर्लभमेव । मनुष्यस्य भावो मानुष्यं मानुषजन्मेत्यर्थः । तदेवंविधमतिदुष्प्रापं प्राप्य । कोऽयं मम प्रमादोऽवबुध्यमानस्यैवाननुष्ठानं प्रमादो ज्ञानादिषु मुक्तिसाधनेषु । कदाचिदिदमाशङ्केतात्मा मनुष्यत्वमेवास्तु सदा सुन्दरमक्षीणमिति, तच्च न, यतः-न च गतमायुरित्यादि । प्रतिक्षणमुदयप्राप्तं वेद्यमानम् अनुभूयते अनुभवाच्च परिगलति । न च क्षीणं पुनरावर्तते सौधर्माधिपतेरपि शक्रस्य न प्रत्यागच्छति किं पुनर्नरस्येति ॥६४॥
उत्तरोत्तरविशेषं, कथम् ? - अन्योन्यं यथा सामायिकचारित्रं तावन्मूलं विशुद्धिमत्, ततोऽपि छेदोपस्थापनीयचारित्रं विशुद्ध्या विशेषवदित्यादि । मूलवस्त्वपेक्षयाऽग्रेतनाग्रेतनानि वस्तूनि प्रधानानीति तात्पर्यम् । क्व ? - समये- जिनशासनस्य विषये इति ॥६२॥
(६३) (वि०) वैराग्यमार्गसंप्रस्थितस्य -विरागतापथाश्रितस्य संसारवासचकितस्यभववसनत्रस्तस्य स्वहित- आत्मपथ्यो' मोक्ष: स एवार्थः - प्रयोजनं तत्राभिमुख्येन रता- प्रीता मतिःबुद्धिर्यस्य स तथा, तस्यैवंविधस्य शुभेयमुपपद्यते चिन्तेति व्याख्यातमेवेति सूत्रपञ्चकार्थः ॥६३॥ (६४) (वि०) तामेव चिन्तां स्पष्टयन्नाह - भवेति । भवा-नारकाद्यास्तेषां कोटीभिः सङ्ख्याविशेषैः असुलभं - दुर्लभमेव मानुष्यं - मनुजजन्म तदेवंविधमतिदुष्प्रापं प्राप्य कोऽयं मम प्रमादः ?, न च-नैव गतं-क्षीणमायुः - जीवितं भूयः - पुनरपि प्रत्येति-समागच्छति देवराजस्यापि– शक्रस्यापि, किं पुनरन्यस्येति ॥ ६४ ॥
( ६३ ) ( अव० )त्रस्तस्य स्वहितार्थे आत्मपथ्यमोक्षप्रयोजने आभिमुख्येन रता बद्धा प्रीतिर्मतिर्यस्य ६३ (६४) ( अव० )—– अनन्तसङ्ख्यायाः सूचका भवकोटयः ॥६४॥