________________
प्रशमरतिप्रकरणम्
जिनभाषितार्थसद्भावभाविनो विदितलोकतत्त्वस्य । अष्टादशशीलाङ्गसहस्रधारण कृतप्रतिज्ञस्य ॥६१॥ परिणाममपूर्वमुपागतस्य शुभभावनाऽध्यवसितस्य । अन्योन्यमुत्तरोत्तरविशेषमभिपश्यतः समये ॥६२॥
(६१) टीका-जिनेति । जिनैर्भाषितोऽर्थ उत्पादव्ययध्रौव्ययुक्तो जीवादिः सप्तविधः । स गणधरैः सूत्रेण सूचितस्तस्यार्थस्य सद्भावं भावयति यः१ स यतिस्तच्छीलश्च । 'एवमेतत् तद्यथा भगवद्भिरुक्तं गणधरैर्दृष्टं तथैवायं नान्यथा'इति सद्भावभाविनः । विदितमवगतं लोकतत्त्वं येनासौ विदितलोकतत्त्वः जीवाजीवाधारक्षेत्रं लोकस्तस्य तत्त्वं परमार्थः । नास्त्यत्र वालाग्रप्रमाणोऽपि प्रदेशो यत्र त्रसत्वेन स्थावरत्वेन वा नोत्पन्नो मृतो वा यथासम्भवम् । अथवाऽधोमुखमल्लकाकृतिमध्ये स्थालाकार उपरि मल्लकसमुद्गकाकारः नारकतिर्यङ्मानुषदेवाधिवासो जन्मजरामरणोपद्रवबहुलः । अष्टादशशीलाङ्गसहस्रेषु कृतप्रतिज्ञस्य अष्टादशशीलाङ्गसहस्राण्युपरि वक्ष्यमाणानि धर्माद्भूम्यादीन्द्रियेत्यस्यां कारिकायां(२४५) । अष्टादशशीलाङ्गसहस्राणि धारयितव्यानि यावज्जीवं मयेति आरूढप्रतिज्ञस्य ॥६१॥
(६२) टीका-परिणाममिति । 'शुद्धिप्रकर्षयोगादपूर्वः परिणाम उच्यते २मनसस्तमनुप्राप्तस्य । शुभभावनाध्यवसितस्य । अध्यवसितमध्यवसायः । शुभभावनाः पञ्चानां महाव्रतानां पञ्चविंशतिर्भावनाः३ परिपठिता, अनित्यत्वादिका वक्ष्यमाणा (वा) द्वादश भावनाः तदध्यव
(६१) (वि०) जिनभाषितार्थानां-जीवादिवस्तूनां सद्भावान्-परमार्थान् भावयति स तथा तस्येति। विदितलोकतत्त्वस्य-ज्ञातलोकस्वरूपस्य, लोकश्च-जीवाजीवाधारक्षेत्रम् । अष्टादशानां शीलानाम्-अवयवे समुदायोपचारात् शीलाङ्गानां-चारित्रांशानां वक्ष्यमाणानां सहस्राणि तेषां धारणंपरिपालनं तस्मिन् कृता-विहिता प्रतिज्ञा-अङ्गीकारो येन स तथा तस्येति ॥६१।।
(६२) (वि० ) उपागतस्य-प्राप्तस्य । कम् ?-परिणाम-धर्माध्यवसायम् । कीदृशम् ?अपूर्वं शुद्धिप्रकर्षयोगात्, शुभभावनासु-द्वादशविधासु महाव्रतसत्कपञ्चविंशतिप्रमाणासु वाऽध्यवसितस्य कृताध्यवसितस्येति समासः। अभिपश्यतः-पर्यालोचयतो जानानस्येत्यर्थः । किम् ?
(६१) (अव०)-सर्वज्ञभाषितजीवादिप दार्थपरमार्थस्वरूपभावनाशीलस्य जीवाजीवाधारभूतलोकोऽवगतस्वरूपस्य वक्ष्यमाणाष्टादश सहस्रशीलाङ्गधारणकृतप्रतिज्ञस्य ॥६१॥
(६२) (अव०)-दर्शनमोहनीयकर्मक्षयोपशमेन दर्शनशुद्धिरूपमनुप्राप्तस्य, धर्माध्यवसा' यमध्यवसायस्य, अन्योन्यं स्वदर्शनपरदर्शनापेक्षयोत्तरोत्तरविशेषं पश्यतो जिनागमे ॥६२॥