________________
प्रशमरतिप्रकरणम्
३७
सद्भूतनिह्नवो नास्त्यात्मेति, असद्भूतोद्भावनं सर्वगत आत्मेति, विपरीतं कटुकसावद्यादिवचनं च, गामश्वं भाषमाणस्य विपरीतं, कटुकं परुषमाक्रोशादि, सावधवचनम् अनेन मार्गेण मृगपशुयूथं गतमिति लुब्धकायाचष्टे । चौरबुद्ध्या परस्वम् आत्मसात्करोति परधनहरणं । मैथुनं द्वयोर्योगः सचित्तयोः सचित्ताचित्तयोर्वा । मिथुनस्य भावो मैथुनं स्त्रीपुंनपुंसकवेदोदयादासेवनम् । ममत्वलक्षणः परिग्र हो ममेदं स्वम् अहमस्य स्वामीति 'मूर्छा परिग्रह' इति वचनात् (तत्त्वार्थ ७-१३)। एभ्यः प्राणिवधादिभ्यो विरतस्य । निशि भोजनं तु परिग्र हलक्षणे न अदत्तादानलक्षणे न चान्तावितम् । एवं मूलगुणानभिधायोत्तरगुणानभिधित्सुराह-नवेति । कोटिरंशं यथा षट्कोटिस्तम्भः षडश्रिः२ षडंश इत्यर्थः । न स्वयं हन्ति, नान्येन घ्नन्ति, घ्नन्तमन्यं नानुमोदते, एतास्तिस्रः कोटयः । तथा न स्वयं पचति, न पाचयति, पचमानं नानुमोदते, इत्येता अपि तिस्रः कोटयः । तथा न स्वयं क्रीणाति, न क्रापयति, क्रीणानमन्यमपि नानुमोदते, इत्येताश्चान्यास्तिस्रः । एकत्र समाहृता नव कोटयः । पुनरिमा द्विधा भिद्यन्ते अविशुद्धकोटिविशुद्धकोटिश्च । आद्याः षडविशुद्धकोटय:३ पाश्चात्यास्तिस्रो भवन्ति विशुद्धकोटि: । उद्गमोऽन्वेषणं यथा-उग्गमं से अ पुच्छिज्जेत्यादि (दशवै. ५-१-५६) । तेन शुद्धमुद्गमशुद्धम् । उञ्छमिवोञ्छं लूनके दारपतितव्रीहिकणानामुच्चयनमुञ्छं न कस्यचित्कृषीवलादेः पीडाकारि । तथाऽकृताऽकारितासंकल्पिताननुमतम् निसृष्टं कल्पनीय-मादीयमानं न कञ्चन सत्त्वमुपहन्ति । उञ्छमेवोञ्छमात्रम् । तेन तादृशा यात्रायामधिकारो यस्य स उञ्छमात्रयात्राधिकारः । यात्रा त्वहोरात्राभ्यन्तरे विहितक्रियानुष्ठानं तत्राधिकृतस्य नियुक्तस्येत्यर्थः ॥६०॥
अथोत्तरगुणयुक्ततामाह-नव च ताः कोटयश्च-अग्रभागा अंशा अश्रयो नवकोटयः, ताश्चैवम्-न स्वयं हन्ति १ नान्येन घातयति २ घ्नन्तमन्यं नानुमोदयते ३, एवं न पचति १ न पाचयति २ पचन्तं नानुमोदयते ३, एवं न क्रीणाति १ न क्रापयति २ क्रीणन्तं नानुमोदयते ३, एता मीलिता नव कोटयः । पुनरिमा द्विधा-आद्याः षट् अविशुद्धकोटयोऽन्त्यास्तिस्रो विशुद्धकोटयः । तथोद्गमः-उत्पत्तिः, यथा 'उग्गमं से य पुच्छेज्जा' इत्यादि, ततो नवकोटीभिरुद्गमस्तेन शुद्धो-निर्दोषस्तथोञ्छ इवोञ्छ:शुद्धाहारः स एवोञ्छमात्रम् । ततश्च नवकोट्युद्गमशुद्धं च तदुञ्छमात्रं च तत्तथाभूतं-निर्दोष आहारस्तेन यात्रायां-संयमे अधिकारो-नियोगो यस्य स तथा तस्येति ॥६०॥
त्रिरूपास्ताभिरुद्गमादिभिश्च शुद्धं यदुञ्छमात्रं भैक्ष्यं तेन यात्राधिकारात् संयमयात्रा तया निर्वाहो यस्य शुद्धतमाहारोपधिपात्रग्रहणतत्परस्येति भावार्थः ॥६०॥