________________
३६
प्रशमरतिप्रकरणम्
अस्य तु मूलनिबन्धं ज्ञात्वा तच्छेदनोद्यमपरस्य । दर्शनचारित्रतपःस्वाध्यायध्यानयुक्तस्य ॥५९॥ प्राणवधानृतभाषणपरधनमैथुनममत्वविरतस्य । नवकोट्युद्गमशुद्धोञ्छमात्रयात्राधिकारस्य ॥६०॥
जन्मान्तरेषु सत्त्वानामनेकदुःखसङ्कटावतारणे १अलं जीवितापहारि चेति । तदेतच्छक्यमप्रमत्तेन । उद्वेष्टयितुं विनाशयितुम् । प्रमादः कषायनिद्रादिस्तद्रहितेन प्रशमस्थितेनेति प्रशमापितमनसा प्रशमैकरसेन । घनं गहनमेतज्जालम् । निरवशेषमामूलादुद्धर्तुमिति ॥५८॥
(५९) टीका-पञ्चभिः कारिकाभिः कुलकम् । अस्येति । अस्य महादोषसञ्चयजालस्य । मूलनिबन्धं मौलं कारणं विज्ञाय । तच्छेदने उद्यम उत्साह: परो यस्य? "मयैतन्महाजालं छेत्तव्यम्" । दर्शनं तत्त्वार्थश्रद्धानलक्षणम् । चारित्रं सामायिकादि । तपो द्वादशभेदमनशनादि । स्वाध्यायः पञ्चप्रकारो वाचनाप्रच्छनादिः । ध्यानमेकाग्रचित्तनिरोधलक्षणं धर्म्य शुक्लं च । धर्मादनपेतं धर्नामाज्ञापायविपाकसंस्थानविचयभेदाच्चतुर्विधं, शुक्लमप्यत्यन्तविशुद्धाशयस्यापृथक्त्वैकत्ववितर्कमविचारं (पृथक्त्ववितर्कसविचारमेकत्ववितर्काविचार) सूक्ष्मक्रियाप्रतिपाति व्युपरतक्रियालक्षणं चतुर्धा । एभिः सम्यग्दर्शनादिपरिणामैर्युक्तस्य ॥५९।।
(६०) टीका-तथा-प्राणेति । प्रमत्तयोगात्प्राणव्यपरोपणं प्राणवधः । अनृतभाषणं
उद्यतेन । तथा प्रशमस्थितेन-उपशमपरेण । जालं तु कीदृशम् ?-घनमपि-गहनमपि, तथा निरवशेषंसमस्तमिति ।।५८॥
(५९) (वि०) तदुद्वेष्टने चास्य जीवस्य एवंविधा चिन्ता उपजायते इत्याद्यार्यापञ्चकेनाहअस्येति । प्राणेति । जिनेति । परिणाममिति । वैराग्येति । अस्य रागादिदोषजालस्य मूलनिबन्धं प्रमादयोगरूपं ज्ञात्वा-बुद्ध्वा जीवस्येति शेषः । शुभा-प्रशस्येयमेषोपपद्यते-जायते चिन्ताचित्तवृत्तिरिति पञ्चमार्यापर्यन्ते, इति सण्टङ्कः । ततो जीवस्य विशेषणत्रयोदशकमाह-तस्यदोषजालस्य छेदने-घाते उद्यम उत्साहस्तत्र पर:-प्रकृष्टः तस्य, तथा दर्शनं-तत्त्वश्रद्धानम्, चारित्रंसामायिकादि पञ्चधा, तपोऽनशनाद्यनेकविधं, स्वाध्यायो वाचनादि पञ्चधा, ध्यानं-धादि द्विधा, ततो द्वन्द्वस्तैर्युक्तस्येति ।।५९॥
(६०) (वि०) प्राणवधेत्यादिप्रथमार्धेन सुखबोधेन मूलगुणयुक्तस्येति कथितम् । (५९) (अव०)-रागद्वेषादिजालस्य मूलकारणं । जीवस्येति शेषः ॥५९॥ (६०) (अव०)-नवकोटयो हनन ३ पचन ३ क्रयणानां ३ स्वयं करणकारणानुमतिभिः