SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् कर्ममयः संसारः संसारनिमित्तकं पुनर्दुःखम् । तस्माद्रागद्वेषादयस्तु भवसन्ततेर्मूलम् ॥५७॥ एतद्दोषमहासञ्चयजालं शक्यमप्रमत्तेन । प्रशमस्थितेन घनमप्युद्वेष्टयितुं निरवशेषम् ॥५८॥ ३५ उक्तलक्षणौ रागद्वेषौ । 'मोहो मोहनीयम् । मिथ्यात्वं तत्त्वार्थाश्रद्धानलक्षणम् अविरतिरनिवृत्तिः कर्माश्रवेभ्यः । एभी रागादिभिर्विकथादिप्रमादपञ्चकसहितैर्मनोवाक्काययोगानुगतैः कर्मादीयते गृह्यते स्वप्रदेशेष्वात्मना निधीयत इत्यर्थः । ततश्च घटीयन्त्रन्यायेन रागादीनां कर्मबन्धहेतुत्वं । कर्मणोऽपि रागादिपरिणामः ॥५६॥ (५७) टीका-ततश्च— कर्ममय इति । कर्मविकारो नारकत्वं तिर्यक्त्वं मनुष्यत्वं देवत्वं १च । नारकादिरूपसंसारकारणं दुःखं शारीरं मानसं वा । न ह्यनारको नरके दुःखमनुभवति । एवमितरत्रापि । तस्माद्रागद्वेषादयः पञ्च कर्मबन्धहेतवो नारकादिभवसन्ततेर्भवपरंपराया मूलं बीजं प्रतिष्ठेति ॥५७॥ (५८) टीका - कः पुनरस्य रागद्वेषादिजनितस्य संसारचक्रस्य भङ्गोपाय इत्याहएतदिति । दोषाणां रागद्वेषादीनां तज्जनितकर्मणां च महासञ्चय उपचयः । दोषमहासञ्चय एव जालम् । जालमिव जालम् । यथा मीनमकरादीनामादायकं जालं जीवनापहारि तद्वदेतदपि एवं रागादिभिः पञ्चभिः प्रतीतैः कीदृशैः ? - प्रमादो - मद्यादिः पञ्चधा, योगो-मनोयोगादयस्त्रयः ते तथा ताननुगच्छन्ति-अनुसहायीभवन्ति ये तैः प्रमादयोगानुगैः समादीयते -गृह्यते, किम् ?-कर्मेति ॥५६॥ (५७) (वि०) ततश्च - कर्ममय इति । कर्ममयः - अदृष्टनिष्पन्नः । कः ? - संसारः, ततः किम् ?-तन्निमित्तकं-तत्कारणं पुनर्दुःखम्, तस्माद्रागद्वेषादयो भवसन्ततेर्मूलमिति ॥५७॥ (५८) (वि०) ननु कथमेतन्निर्जेतुं शक्यमत आह - एतदिति । एतद् रागादिदोषसञ्चयजालं जालमिव जालं यथा मत्स्यादीनामादायकं जालं तद्वदेतदपि, दुःखहेतुत्वात्, शक्यमुद्वेष्टयितुम्-अपनेतुं विनाशयितुमिति सम्बन्धः । केन ? - जीवेन । कीदृशेन ? - अप्रमत्तेन रागादिभिर्विकथादिप्रमादमनः प्रभृतियोगयुतैः ॥५६॥ (५८) (अव०)- एतेषां दोषाणां सञ्चयस्य जालमिव जालं दुःखहेतुत्वात्, आमूलादुद्धर्तुमप्रमत्तेन शक्यम् ॥५८॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy