________________
३२
प्रशमरतिप्रकरणम्
कारणवशेन यद्यत् प्रयोजनं जायते यथा यत्र । तेन तथा तं विषयं शुभमशुभं वा प्रकल्पयति ॥५०॥ अन्येषां यो विषयः स्वाभिप्रायेण भवति तुष्टिकरः । स्वमतिविकल्पाभिरतास्तमेव भूयो द्विषन्त्यन्ये ॥५१॥
वा रागवशात् प्रागिष्टः पश्चाद् विषयपरिणामादनिष्ट आपद्यते । स एव पुनरशुभः कालान्तरेण ४ रागपरिणामादिष्टो जायत इति अनवस्थितप्रेमाणीन्द्रियाणीत्यतस्तज्जनितं सुखमनित्यमिति
॥४९॥
(५०) टीका - तस्मात्प्रयोजनापेक्षाणि व्यापार्यन्ते जीवेनेत्याह - कारणवशेनेति । १ रागाध्मातमानसो गीतध्वनिमाचि कर्णयिषुः श्रोत्रं व्यापारयति । एवमभीष्टरूपालुलोकयिषया चक्षुर्व्यापारयति । एवं शेषेन्द्रियविषयेष्वपि प्रयोजनवशाद् व्यापारयति घ्राणादीनि । तेन प्रयोजनेन तथातथोत्पन्नेन तं विषयं शब्दादिकमिष्टतयानिष्टतया वा रागद्वेषवशात् परिकल्पयति ॥५०॥
(५१) टीका-अन्येषामिति । विवक्षितपुरुषाद्येऽन्ये । तेषां यो विषयः शब्दादिः ।
कश्चित्पुनरशुभोऽपि-अनिष्टोऽपि भूत्वा - सम्पद्य कालेन पुनः शुभीभवति-प्रियः सम्पद्यते इत्यनवस्थितानि प्रेमाणि, अतस्तज्जन्यं सुखमनित्यमिति ॥ ४९ ॥
(५०) (वि० ) ईदृशश्च भावः परिणामवशात्, स च न निर्निबन्धन इत्यावेदयन्नाह— कारणवशेनेति । कारणवशेन रागाद्यायत्ततया यद्यत् प्रयोजनं मधुरशब्दाकर्णनादि जायते-भवति यथा-येन प्रकारेण यत्र वस्तुनि तेनैव कारणेन हेतुना तथा तेनैव प्रकारेण तं विषयं - शब्दादिकमिष्टानिष्टतया प्रकल्पयति-पर्यालोचयतीति । अत्र भावना यथा विषम् अशुभमपि शत्रुविनाशकत्वेनेष्टं तथा स्निग्धान्नमपि पित्तघ्नमिति मत्वा द्वेष्टति ॥५०॥
( ५१ ) (वि० ) अस्यैवार्थस्य भावनार्थमाह- अन्येषामिति । अन्येषां विवक्षितपुरुषापेक्षया अपरेषां यो विषय:- शब्दादिः स्वाभिप्रायेण - रागान्निजाकूतेन भवति पुष्टिकर: तुष्टिकरो वापोषोत्पादकस्तोषोत्पादको वा स्वमतेः स्वमत्या वा विकल्पो - विकल्पनं तत्राभिरता - आसक्ताः
(५० ) ( अव० )—कारणवशेन निमित्तसामर्थ्येन यत् यत् प्रयोजनमर्थो जायते, यथा प्रकारेण स्यात्तथा तेनैव प्रकारेण तमर्थं शुभमशुभं चिन्तयति, यथा शत्रुघ्नं विषं १ पित्तघ्नं च ॥५०॥ (५१) (अव०)—–शब्दादिः स्वरोचनेन परितोषमाधत्ते, स्वमत्या विकल्पो द्वेषप्रभृतिपरिणामजनितविकल्पनं तत्राभिरता = आसक्ताः ॥५१॥