________________
प्रशमरतिप्रकरणम्
तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं न विद्यते किञ्चिदिष्टं वा ॥५२॥ रागद्वेषोपहतस्य केवलं कर्मबन्ध एवास्य । नान्यः स्वल्पोऽपि गुणोऽस्ति यः परत्रेह च श्रेयान् ॥५३॥
स्वाभिप्रायेणोल्बणरागाणां स्वमनःपरिणामवशात् परितोषमाधत्ते । अपरे तु स्वमतिविकल्पाभिरताः प्रबलद्वेषवशात् स्वमनोविकल्पशिल्पघटनया तमेव विषयं पुनरनिष्टतया द्विषन्ति ॥५१॥
(५२) टीका-एवमनवस्थितप्रेमाणो विषयाः परमार्थतो न प्रिया न चाप्रिया इति दर्शयन्नाह-तानिति । तानेवेष्टान् शब्दादीन् द्विषतो विषयभुजस्तानेव च द्वेष्याननुप्रलीयमानस्य तन्मयतां गच्छतः समुपजातरागस्य । निश्चयतः परमार्थतः । नैकान्तेनैवास्य सम्भवति किञ्चिदिष्टमनिष्टं वा ॥५२॥
(५३) टीका-इहपरलोकयोश्च कर्मबन्धादृते न कश्चिदपि गुणः सम्भाव्यते रागिणो द्वेषिणो वेति दर्शयन्नाह-रागेति । रागद्वेषाभ्यामुपहतमानसस्य केवलं यदि परं कर्मबन्ध एवास्य विभाव्यते नापर: श्रेयान् गुणः परलोके। कश्चिदिहलोके वा विद्यत इति ॥५३।।
स्वमतिविकल्पाभिरताः द्वेषवशात् तमेव विषयं पुनरनिष्टतया द्विषन्त्यन्य इति ॥५१॥
(५२) (वि०) एवं च सति अस्य जीवस्य नैकान्तेन किञ्चिदिष्टमनिष्टं वाऽस्तीति दर्शयन्नाह-तानेवेति । तानेवार्थान्-शब्दादीन् द्विषतः-अप्रीयमाणस्यास्य जीवस्येति योगः । तानेवार्थान् प्रलीयमानस्य-आश्रयतो निश्चयतो-निश्चयमाश्रित्यास्येति योजितमेवानिष्टम्-असुन्दरं नैव विद्यते किञ्चित्-किमपि वस्त्विष्टं वा-'प्रतीमिति (प्रीतमिति) ॥५२॥
(५३) (वि०) तत एवंविधजीवस्य यत्स्यात्तदाह-रागेति । स्पष्टमेवेति ॥५३।।
(५२) (अव०)-कदाचिद् द्वेषवशतः समुपजातरागस्य कदाचिद्रागवशात् निश्चयतः परमार्थतस्तद्राग-द्वेषकारणमेव ॥५२॥
(५३) (अव० )-रागद्वेषकृतप्रतिघातस्य ॥५३॥