SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् न हि सोऽस्तीन्द्रियविषयो येनाभ्यस्तेन नित्यतृषितानि । तृप्ति प्राप्नुयुरक्षाण्यनेकमार्गप्रलीनानि ॥४८॥ कश्चिच्छुभोऽपि विषयः परिणामवशात्पुनर्भवत्यशुभः । कश्चिदशुभोऽपि भूत्वा कालेन पुनः शुभीभवति ॥४९॥ विषयसक्रेत्यादि । शब्दाद्ये कै कविषयसङ्गाद्रागद्वेषवशगत्वादातुरास्ते ३ कुरङ्गादयो विनाशङ्गताः । मान्द्याभिभूतापथ्याश्यातुरवत् । किं पुनरनियमितात्मेति नात्मा नियमं ग्राहितो न निवारितः शब्दादिविषयेषु प्रीतिमनुबध्नन् पञ्चानामिन्द्रियाणां वशवर्ती, अत एवार्तोऽप्राप्तान् विषयानभिलषन् प्राप्तांश्चावियोगतश्चिन्तयन्निति ॥४७॥ (४८) टीका-न च कश्चिच्छब्दादिविषयः १सोऽस्ति योऽभ्यस्यमानः सर्वथा तृप्ति करिष्यतीति एतत्प्रदर्शयन्नाह-न हीति । नैवास्तीन्द्रियविषयः स शब्दादिर्येनाभ्यस्तेन पुनः पुनरासेव्यमानेन । नित्यतृषितानि नित्यमेव साभिलाषाणि सपिपासानि तृप्ति प्राप्नुयुः अक्षाणीन्द्रियाणि । अनेकमार्गे शब्दादावनेकभेदेन प्रकर्षेण लीनानि तन्मयतां गतानि तदासक्तानि । पुनः पुनराकाङ्क्षन्त्येव स्वविषयानिति, अपि चैतानीन्द्रियाणि स्वविषयेषु नैकरसानि ॥४८|| (४९) टीका-यस्मादिष्टमप्यनिष्टमनिष्टमपीष्टं मन्यन्त’ २इत्येतद् दर्शयन्नाहकश्चिदिति । इष्टोऽपि कश्चिद्विषयो वेणुवीणागायनादीनां यथा ध्वनिर्बुभुक्षार्तस्य पिपासितस्य विनष्टाः सन्तस्ते हरिणादयः । किमिति प्रश्ने । पुनरिति वितर्के । अनियमितात्मा जीवः । पञ्च च तानीन्द्रियाणि च पञ्चेन्द्रियाणि तेषां वशोऽत एवार्तः-पीडितः स पञ्चेन्द्रियवशातॊ न विनश्यति ?, अपि तु विनश्यतीति ॥४७।। (४८) (वि०) किञ्च-न स कश्चिद्विषयोऽस्ति येन जीवस्तृप्तो भवतीत्यावेदयन्नाह-न हीति । नैवास्ति स इन्द्रियविषयो येनाभ्यस्तेन-पुन:पुनरासेवितेन नित्यतृषितानि-सर्वदा पिपासितानि, किम् ?-तुष्टिं प्राप्नुयुः-तुष्टिमागच्छेयुः । कानि ?-अक्षाणि-इन्द्रियाणि । कीदृशानि ?अनेकमार्गप्रलीनानि-बहुविषयासक्तानि, पुन:पुनः स्वविषयानाकाङ्क्षन्तीत्यर्थ इति ॥४८|| (४९) (वि०) अपि च एतानि स्वविषयेष्वपि नैकस्वरूपाणीत्यावेदयन्नाह-कश्चिदिति । कश्चिद्विषयः शुभोऽपि-इष्टोऽपि परिणामवशात्-विरूपादिपरिणतिवशात् अनिष्टो भवति । (४८) (अव०)-इन्द्रिययोग्यो विषयो भावः । येनाक्षाणीन्द्रियाणि तृप्ति प्राप्नुवन्ति अनेकस्मिन्मार्गे प्रकर्षेण लीनानि ॥४८॥ (४९) (अव०)-विषयो रूपादिः परिणामवशात् मृतकलेवरादिवशादशुभः स्यात् कचवरादिः अशुभोऽपि वर्यः स्याद् धूपनादिना ॥४९॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy