________________
३०
प्रशमरतिप्रकरणम्
एवमनेके दोषाः प्रणष्टशिष्टेष्टदृष्टिचेष्टानाम् । दुर्नियमितेन्द्रियाणां भवन्ति बाधाकरा बहुशः ॥४६॥
एकैकविषयसङ्गाद् रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा जीवः पञ्चेन्द्रियवशार्तः ? ॥४७॥
(४६ ) टीका—'इत्थमिन्द्रियगृद्धानामपायद्वारमात्रमुक्तमित्युपसंहरति-एवमनेके दोषा इत्यादि । एवमुक्तप्रकारेण प्रत्यक्षप्रमाणमधिगम्य एकैको दोष ः प्रदर्शितः । तद्द्वारेण च परलोकेऽप्यनिवृत्तविषयसङ्गानां बहवो दोषा नारकतिर्यग्योनिभवादिषु भवन्ति । केषा दोषाः ? प्रणष्टशिष्टेष्टदृष्टिचेष्टानाम् । शिष्टा विवेकिनः परलोकपथप्ररूपणानुष्ठाननिपुणास्तेषामिष्टा दृष्टिचेष्टा। दृष्टिः सन्मार्गोपदेशि ज्ञानम् । चेष्टा क्रियानुष्ठानम् । उभयावेते शिष्टेष्टदृष्टिचेष्टे प्रणष्टे येषां ते प्रणष्टशिष्टेष्टदृष्टिचेष्टास्तेषाम् । दुर्नियमितेन्द्रियाणां दोषेषु न नियमं ग्राहितानि इन्द्रियाणि यैः। श्रोत्रादिविषयव्यसनानि दोषास्तेषां दुर्नियमितेन्द्रियाणाम् । बाधाकराः पीडाकराः शारीरमानसाशर्मकारिणोऽनेकशः संसारोदधौ परिवर्तनमाचरतामिति ॥४६॥
(४७) टीका-अपि चैते कुरङ्गादयो विनाशभाजः संवृत्ता एकैकविषयासक्ताः । यः पुनः पञ्चस्वपीन्द्रियार्थेषु सक्तः स किल यज्जीवति तदेव चित्रमित्युपसंहरन्नाह - एकैक
(४६) (वि०) एतदासक्तानां वा दोषा बाधाकरा भवन्तीत्यावेदयन्नाह - एवमिति । एवम्-'उक्तेन प्रकारेण दुर्नियमितेन्द्रियाणां जीवानामनेके दोषा बाधाकरा भवन्तीति योगः ।
शानाम् ? - दृष्टिश्च - ज्ञानम्, चेष्टा च क्रिया ते तथा । शिष्टानां विवेकिनामिष्टे - प्रिये ते च दृष्टिचेष्टे च प्रिये ते च दृष्टिचेष्टे ते तथा । ततः प्रणष्टे - अपगते शिष्टेष्टदृष्टिचेष्टे येषां ते तथा । पाठान्तरं तु दृष्टचेष्टानां, तत्रेष्टा चासौ दृष्टा च - अवलोकिता इष्टदृष्टा सा चासौ चेष्टा चेष्टदृष्टचेष्टा शिष्टानामिष्टदृष्टचेष्टा शिष्टेदृष्टचेष्टा सा तथा, ततः प्रणष्टा शिष्टेष्टदृष्टचेष्टा येषां ते तथा तेषाम् । पुनः कीदृशानाम् ?दुर्नियमितानि-दोषं ग्राहितानीन्द्रियाणि - हृषीकाणि यैस्ते तथा । तेषां बाधाकराः -पीडाविधायकाः । कथम् ?-बहुशः-अनेकधेति ॥ ४६ ॥
(४७) (वि०) एवमेकैकासक्ता विनाशभाजो जाता:, यः पुनः पञ्चस्वासक्तः स सुतरां विनश्यतीति प्रकटयन्नाह एकैकेति । एकैकविषयसङ्गात्-शब्दाद्येकैकाभिष्वङ्गाद् रागद्वेषातुरा
( ४६ ) ( अव० )–'शिष्टा - विवेकिनः परलोकपथनिपुणास्तेषामिष्टा दृष्टिचेष्टाः । दृष्टिः=सन्मार्गोपदेशनं चेष्टा:-क्रिया, दोषेष्वनियमं ग्राहितानीन्द्रियाणि यैः ॥ ४६ ॥