________________
प्रशमरतिप्रकरणम्
१ मिष्टान्नपानमांसौदनादिमधुररसविषयगृद्धात्मा । गलयन्त्रपाशबद्धो मीन इव विनाशमुपयाति ॥ ४४ ॥
२९
शयनासनसम्बाधनसुरतस्नानानुलेपनासक्तः । स्पर्शव्याकुलितमतिर्गजेन्द्र इव बध्यते मूढः ॥४५॥
( ४४ ) टीका - मिष्टान्नपानमांसौदनादीत्यादि । मिष्टमत्यन्तस्वादु सर्वदोषरहितं भक्षभोज्यं १विविधम् । पानकादि च मद्यं प्रसन्नादि वा पानम् । मांसं हतहरिणशूकरशशलावकादीनाम् । शाल्योदनादि च । मधुरो रसः खण्डशर्करादिः ३ । स एव विषयो रसनायास्तस्मिन् गृद्धः सक्त आत्मा यस्य। 'लोहोऽङ्कुशको गलो, यन्त्राणि 'नामादिगर्भाणि सिंहव्याघ्रद्वीपिमूषिकादिव्यापादनहेतोः क्रियन्ते, ६तन्तुमयाः पाशास्तित्तिरलावकमयूरादिव्यापत्तये निक्षिप्यन्ते । अथवा यन्त्रम्=आनायः स एव पाशस्तेन बद्धो वशीकृतः । पृथुरोमा मृत्युमुखमाविशति ॥४४॥
(४५) टीका - शयनासनेत्यादि । शयनं सप्रमाणा शय्या 'तुल्योपधानं वा प्रच्छदपटसनाथा । आसनमप्यासन्दकादि व्यपगतोपद्रवं २ मृदुवध्रपट्टादिव्यूतम् । संवाहनमङ्गमर्दनम् । सुरतं कोमलगात्रयष्टेः प्रियायाः चुम्बनालिङ्गनादि । स्नानानुलेपने पूर्वोक्ते । तेषु सक्तो व्यसनी । शय्यादिसंस्पर्शेन प्रियाङ्गस्पर्शेन च व्याकुलितमतिर्मोहितबुद्धिर्गजेन्द्र इव ४गणिकाकरिणीभिः कराग्रैः " संस्पृश्यमानो वीज्यमानश्च सत्कुसुमैः पल्लवैः काञ्चित्च्छुपन् काञ्चिद्दन्तकाण्डेन प्रेरयन् काञ्चिदग्रे कृत्वा काञ्चित्पृष्ठतो विधाय पार्श्वतश्चान्यां स्वच्छन्दचारी क्रीडन्ननेकविधवारिपञ्जरमध्यमानीतः । ततश्चाधोरणेनाधिरूढस्तीक्ष्णाङ्कुशाग्रग्राहग्रस्तमस्तकः परवशोऽनेकप्रकारं दुःखमनुभवतीति ॥४५॥
(४४) (वि०) मृष्टाश्च तेऽन्नपानमांसौदनादयश्च प्रसिद्धास्ते तथा, ते च मधुररसाश्च'लौल्यास्वादा द्राक्षाखण्डादयस्त एव विषयो रसनायाः गोचरस्तत्र गृद्ध आत्मा यस्य स तथा । गलोलोहमयोऽ ऽङ्कुशः यन्त्रं-जालं पाशो-वालादिमयस्तित्तिरादिग्रहणहेतुस्तेषां द्वन्द्वस्तैर्बद्धो - वशीकृतो मीन इव-मत्स्यवद्विनाशमुपयतीति ॥ ४४ ॥
(४५) (वि०) शयनं शय्या, आसनं-मसूरकादि, सम्बाधनं विश्रामणा, सुरतंमैथुनसेवा, स्नानम्-अङ्गप्रक्षालनम्, अनुलेपनं-कुङ्कुमादिसमालम्भनम्, तेषां द्वन्द्वस्तेष्वासक्तः । स्पर्शेत्यादि व्यक्तमिति ॥ ४५ ॥
(४४ ) ( अव० )–खण्डशर्करादिः स एव विषयो रसनायास्तस्मिन्नासक्त आत्मा यस्य । गलो लोहमयोऽङ्कुशो, यन्त्रं जालं, पाशो वालादिमयः तित्तिरादिग्रहणहेतुस्तैर्बद्धो वशीकृतः ॥४४॥ (४५) (अव० )–आसनं मसूरकादि, सम्बाधनं १ विश्रामणादि, सुरतं मैथुनासेवा, २अनुलेपनं कङ्कुमादि, स्पर्शः प्रियायाश्चुम्बनादिः, मोहितमतिः ॥४५॥