________________
२८
प्रशमरतिप्रकरणम्
गतिविभ्रमेङ्गिताकारहास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः शलभ इव विपद्यते विवशः ॥४२॥ स्नानाडुरागवर्तिकवर्णकरूपाधिवासपटवासैः । गन्धभ्रमितमनस्को मधुकर इव नाशमुपयाति ॥४३॥
( ४२ ) टीका- गतीति । गतेर्विभ्रमो महणप्रकारः सविकारा गतिरित्यर्थः । इङ्गितं निरीक्षितं स्निग्धया दृष्ट्यावलोकनम् । आकारः १ स्तनमुखोरुसन्निवेशविशेषः । २ हास्यं सविलासं सलीलं हसितमित्यर्थः । कटाक्षोऽपाङ्गनिवेशितदृष्टिः सामर्षा । एभिर्विशेषणैविक्षिप्तः प्रेरितो वनितारूपादौ निवेशितचक्षुः शलभ इव विपद्यते विनश्यति । शलभ दीपशिखावलोकनाक्षिप्तोऽभिमुखः पतितस्तत्रैव भस्मसाद्भवतीति ॥४२॥
(४३) टीका - स्नानाङ्गरागेत्यादि । कतिपयसुरभिद्रव्यसमाहारः स्नानम् । अङ्गरागश्चन्दनकुङ्कुमादिविलेपनम् । धूपद्रव्यकृता वर्तिरेव वर्तिका सैव धूपो वर्तिकधूप एवासौ सञ्जायते सैव दह्यमाना धूपायते । वर्णकाः कृष्णादयः । अधिवासो मालतीकुसुमादिभिः । पटवासो गन्धद्रव्यचूर्णः। एभिः स्नानादिभिर्गन्धैर्भ्रमितमाक्षिप्तं मनो यस्यासौ गन्धभ्रमितमनस्कः । मधुकरः शिलीमुख इव विनाशं प्राप्नोति । सुरभिणा पद्मगन्धेनाकृष्टश्चञ्चरीकस्तन्मध्यवर्तिगन्धमाजिघ्रन्नस्तमिते सवितरि सङ्कुचत्यपि नलिने नाशमुपयातीति । निरुद्धत्वाच्च तत्रैव परासुतां लभत इति ॥४३॥
( ४२ ) ( वि० ) गतिविभ्रमः - सविकारगमनम्, यद्वा पृथग्द्वे पदे, ततो गतिः -'मह्रणतारूपा, विभ्रमो-मनोहराभरणानामङ्गेषु रचनात्मकः । यद्वा विभ्रमः- चिरकालात् प्रियदर्शने प्रीत्या सौत्सुक्यमुत्थानम्, इङ्गितं तु-स्निग्धावलोकनम्, यद्वा महामतिज्ञेयं गूढं मनश्चेष्टितम्, आकारस्तुस्तनमुखोरुसन्निवेशो, यद्वा सर्वशरीरस्य हृद्यं संस्थानम् । हास्यं तु - सविलासं सलीलं हुसनम् । लीला - मन्दं सर्वक्रियासु प्रवर्तनम् । कटाक्षः - सरागं तिर्यनिरीक्षणम् । यद्वा चित्रो दृष्टिसञ्चरः । एतैर्गत्यादिभिर्विक्षिप्तो–विह्वलीकृतः स तथा, रूपावेशितचक्षुः- वनितारूपादौ निवेशितदृष्टिः शलभ इव विपद्यते, विवशः-पतङ्गवद्विनश्यत्यशरण इति ॥४२॥
( ४३ ) ( वि० ) स्नानं-सुगन्धिजलधावनम्, अङ्गरागस्तु कुङ्कुमादिः, सुरभिद्रव्यनिष्पन्ना दीपवर्त्याकारा वर्तिः सैव वर्तिका, वर्णकः - चन्दनम्, धूपस्तु प्रतीतः, अधिवासस्तु कस्तूरिकादि, पटवासस्तु वस्त्रसौरभ्यकारी गन्धविशेषः, एषां सप्तानां द्वन्द्वः तैः, 'याकारा 'विति क्वचिद् ग्रहणाद् ह्रस्वत्वं वर्तिकायाः । गन्धभ्रमितमनस्को-गन्धविह्वलचित्तो मधुकर इव नाशमुपयाति-भ्रमरवद्विनश्यतीति ॥४३॥
'चक्षुः
(४२) (अव० ) - सविकारा गतिः, नयनोत्थं निरीक्षितं, देहसन्निवेशः, प्रेरितः, शलभः पतङ्गः, विवश इन्द्रियपरवशो, मृत्युमाप्नोति ॥४२॥
(४३) (अव० ) - स्नानमङ्गप्रक्षालनं, चूर्णं वर्तिर्गात्रानुलेपिनी, वर्तीनां समूहो वार्तिकं, चन्दनादिभिः 'कस्तूरिकादिभिः, पटवासः सौरभ्यकारी गन्धविशेषः एभिः स्नानादिभिर्गन्धैर्भ्रमितमाक्षिप्तं मनोऽस्येति सः ॥४३॥