________________
प्रशमरतिप्रकरणम्
दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥४०॥
कलरिभितमधुरगान्धर्वतूर्ययोषिद्विविभूषणरवाद्यैः । श्रोत्रावबद्धहृदयो हरिण इव विनाशमुपयाति ॥४१॥
२७
( ४० ) टीका-अत्र च स्वभावादेव सर्वः प्राणी सुखमभिलषति दुःखाच्चोद्विजते । मोहान्धो गुणदोषानविचार्य सुखसाधनाय यतमानो यां यां क्रियामारभते सा सास्य दुःखहेतुर्भवतीति दर्शयति- दुःखद्विट् सुखलिप्सुर्मोहान्धत्वादित्यादि । दुःखं द्वेष्टीत दुःखद्विट् । सुखं लिप्सते तच्छीलश्च सुखलिप्सुः । मोहोऽष्टाविंशतिभेदः । तेनान्धो न गुणं दोषं वा पश्यति । चेष्टा कायिकी वाचिकी मानसी वा क्रिया । तेन तादृशा या क्रियते क्रिया, १तया तया दुःखमादत्ते दुःखमनुभवति । कर्मैव वा दुःखं, कारणे कार्योपचारात्तदादत्ते, दुःखकारणं कर्म बध्नातीत्यर्थः ॥४०॥
( ४१ ) टीका–तत्र पञ्चस्विन्द्रियार्थेषु एकैकविषयप्रवृत्तावपि प्रत्यपायान् पञ्चभिदर्शयति—कलरिभितमधुरगान्धर्वेत्यादि । कला अस्मिन् विद्यन्त इति कलं मात्रायुक्तं ग्रामरागरीत्या युक्तम् । रिभितं मधुरं श्रोत्रसुखम् । गान्धर्वविशेषणान्येतानि । तूर्यं वादित्रविशेषस्तस्य ध्वनिः । योषितां विभूषणानि नूपुररसनाकिङ्किणिकादिध्वनितानि । तेषां रवः शब्दः । एवमादिभिर्मनोहारिभिः शब्दैः श्रोत्रेन्द्रियावबद्धं हृदयं येन हरिणेन, प्रणिहितं मनो येन श्रोत्रेन्द्रियविषये स श्रोत्रावबद्धहृदयः कुरङ्गो विनाशमाप्नोति २गोचर्याखेटके । तद्वदपरोऽपि प्रमादीति ॥४१॥
(४० ) ( वि० ) ततः किमित्याह - दुःखद्विडिति । दुःखद्विट् - अशर्मद्वेषी सुखलिप्सुःशर्माभिलाषी जीवो मोहेनान्धो - विवेकलोचनविकलः स तथा तस्य भावस्तत्त्वं तस्मात् किमित्याहअदृष्टगुणदोषो-अज्ञातगुणदोषो यां यां करोति - विधत्ते चेष्टाम् - अशुभक्रियां तया तया दुःखमादत्ते - गृह्णातीत्यार्याद्वयार्थः ॥४०॥
( ४१ ) ( वि० ) कलं-मनोज्ञं श्रूयमाणम्, रिभितं - घोलनासारम् मधुरं - श्रोत्रसुखदायकम् । ततः पदत्रयस्य कर्मधारयः । तच्च तद् गान्धर्वं गीतं तत्तथा । तूर्याणि - वादित्राणि, योषिद्विभूषणानिनूपुरादीनि तेषां कृतद्वन्द्वानां रवो - हृदयाह्लादको घोष: स आद्यो येषां वीणादीनां ते तथा । तैः किमित्याह-श्रोत्रावबद्धहृदयः - श्रवणासक्तचित्तो हरिण इव विनाशमुपयातीति व्यक्तम् ॥४१॥
(४०) (अव० ) - दुःखकारणं कर्म आदत्ते ॥४०॥
( ४१ ) (अव० )–कलास्त्यस्मिन्निति कलं ग्रामरागरीत्या युक्तं, रिभितं घोलनासारं, योषिद्विभूषणं नूपुरादि, श्रोत्रेन्द्रियाऽवबद्धं हृदयं येन ॥४१॥