________________
प्रशमरतिप्रकरणम्
ताः कृष्णनीलकापोततैजसीपद्मशुक्लनामानः । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः ॥३८॥ कर्मोदयाद् भवगतिर्भवगतिमूला शरीरनिर्वृत्तिः ।
देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे ॥३९॥ (३८) टीका-तत्र लेश्या इति कः पदार्थः ? कति वा भवन्ति लेश्या इत्याह-ताः कृष्णनीलेत्यादि । षट् ?लेश्या मनसः परिणामभेदाः । स च परिणामस्तीवाद्यध्वसायोऽशुभो जम्बूफलबुभुक्षुषट्पुरुषीदृष्टान्तादिसाध्यः । अपरे त्वाहुर्योगपरिणामो लेश्या । यस्मात्कायवाग्व्यापारोऽपि मन:परिणामापेक्षस्तीव्र एवाशुभो भवति । अशुभशुभकर्मद्रव्यसदृशाः स्वान्तःपरिणामा जायन्ते प्राणिनाम् । वर्णकाश्चेतिकाहरितालहिङ्गलकादयः, तेषां कुड्यादौ चित्रकर्मणि स्थैर्यमापादयति श्लेषो वर्णानां बन्धे दृढीकरणम् । एवमेता लेश्याः कर्मबन्धस्थितिविधात्र्यस्तीव्रपरिणामाः स्थितिं कर्मणामतिदीर्घा विदधति दुःखबहुलां कृष्णनीलकापोताख्या निकाचनावस्थास्थापनेन । तैजसीपद्मशुक्लनामान: "शुभकर्मबन्धस्यानुफलदा:(?) शुभबहुलामेव कर्मस्थिति विदधति महतीं, विशुद्धा १°विशुद्धतरा विशुद्धतमाश्चोत्तरोत्तरा भवन्तीति ।।३८॥
(३९) टीका-तस्मिन् पुनः कर्मणि बद्धे आत्मसात्कृते किं भवतीत्याहकर्मोदयाद्भवगतीत्यादि। उदिते विपाकप्राप्ते तस्मिन् कर्मणि । भवो 'नरकादिगतिस्तत्रोत्पत्तिःभवति, भवगतौ सत्यां नरकादिशरीरनिर्वृत्तिः । भवगतिर्मूलं बीजं यस्याः सा भवगतिमूला शरीरनिर्वृत्तिर्देहनिर्वृत्तेश्च स्पर्शादीन्द्रियनिर्वृत्तिः । ततः स्पर्शनादिविषयग्रहणशक्तिः । ततश्चेष्टविषयनिमित्तः सुखानुभवोऽनिष्टविषयनिमित्तश्च दुःखानुभवः ॥३९॥
(३८)(वि० ) एतासां नामानि सदृष्टान्तं कर्मबन्धस्थितिविधातृत्वं चाह-ता इति । प्रथमाधै षट् नामानि कृतद्वन्द्वसमासानि, पञ्चानां इस्वत्वं 'याकारौ स्त्रीकृतौ हुस्वौ क्वचित्' इति सूत्रे क्वचिद् ग्रहणाद्, इत एव तैजस्या न इस्वत्वमिति, तथा नामानोऽत्र विकल्पेनेकार इति । आसां स्वरूपमन्यतोऽवधारणीयम् । श्लेष इव-वज्रलेपादिवद्वर्णबन्धस्य चित्रहरितालादिवर्णकदाढ्यस्य कर्मबन्धस्थितिविधात्र्यो-ज्ञानावरणादिबन्धनस्थानकारिका इत्यार्यार्थः ॥३८॥ इति कर्माधिकारः ॥४॥
(३९) (वि०) तदुदयाद्धेतुहेतुमद्भावेन यद्भवति तदायद्वयेनाह-कर्मोदयादिति । कर्मोदयाद्-उदिते कर्मणि भवगतिः, तन्मूला शरीरनिर्वृत्तिः, देहादिन्द्रियनिर्वृत्तिः, तस्यां विषयशक्तिः, विषयनिमित्ते च सुखदुःखे जीवस्य भवतः ॥३९।।
(३८) (अव०) वर्णकानां बन्धो दृढीकरणं श्लेष इव ॥३८॥ (३९) (अव०) 'नरकादिगतिर्भवगतिर्मूलं बीजं यस्याः, इन्द्रियं विषयनिर्वृत्तिः ॥३९॥