SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् तत्र प्रदेशबन्धो योगात् तदनुभवनं कषायवशात् । स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण ॥३७॥ बन्धस्थितियदशमुहूर्ता । नामगोत्रयोरष्टौ मुहूर्ताः । शेषकर्मणामन्तर्मुहूर्ता२ स्थितिः । अनुभागबन्धो विपाकाख्यः कर्मणः शुभस्याशुभस्य वा बन्धकाल एव रसविशेषं निर्वर्तयति । तस्यानुभवनं विपाकः । स यथा नामकर्मणि गत्यादिषु स्थानेषु विपच्यमानोऽनुभूयते । प्रदेशबन्धस्तु एकस्मिन्नात्मप्रदेशे ज्ञानावरणपुद्गला अनन्तास्तथा शेषकर्मणामपीति ॥३६।। (३७) टीका-तत्रेति । तत्र तेषु चतुर्पु बन्धभेदेषु प्रदेशबन्धस्तावद् योगात् मनोवाक्कायलक्षणाद्भवति । आत्मप्रदेशेषु ज्ञानावरणादिपुद्गलोपचयो जायते इत्यर्थः । तस्य प्रदेशस्थस्य कर्मणोऽनुभवनं कषायवशाद्विपाक इत्यर्थः । स्थितिविशेषः पाकविशेषश्च तस्य कर्मणो लेश्याविशेषजनितो भवति उत्कृष्टो मध्यमो जघन्य इत्यर्थः ॥३७॥ [आद्यानां त्रयाणां चरमस्य च तिस्रः कोटीकोट्यः । आकराणां मोहनीयस्य सप्ततिर्भवति विज्ञेया ॥ नाम्नश्च गोत्रस्य च विंशतिरुत्कृष्टा स्थितिर्भणिता । त्रयस्त्रिंशत्सागराणां परमायुषो बोद्धव्या ॥ वेदनीयस्य तु द्वादश नामगोत्रयोरष्टौ तु मुहूर्ताणि । शेषाणां जघन्यस्थितिर्भिन्नमुहूर्तं विनिर्दिष्टम् ॥] तदनयाऽऽर्यया प्रकृतिबन्धः स्थितिबन्धोऽनुभागबन्धः प्रदेशबन्धश्च प्रकृत्युदयः स्थित्युदयोऽनुभावोदयः प्रदेशोदयश्चोक्तो ज्ञेय इत्यार्यार्थः ॥३६॥ (३७) (वि०) साम्प्रतमस्य चतुर्विधबन्धस्य यथासम्भवं हेतूनाह-तत्रेति । तत्र-तेषु प्रकृतिबन्धादिषु मध्ये प्रदेशबन्ध उपलक्षणत्वात् प्रकृतिबन्धश्च योगात्-मनोवाक्कायरूपात् शुभात् शुभ इतरस्मादितरो भवतीति । तथा तस्य प्रदेशबन्धप्रकृतिबन्धोपात्तस्य कर्मणोऽनुभवनम्-अनुभावोवेदनं कषायवशात् । तथा स्थितेः पाकविशेषो-जघन्यमध्यमोत्कृष्टस्थितिनिवर्तनं तस्य कर्मणो भवति-जायते लेश्याविशेषेण 'कषायपरिणामो लेश्या' इति वचनात् परमार्थतः कषायत इत्यार्यार्थः ॥३७॥ (३७) (अव०) तेषु बन्धभेदेषु चतुर्यु प्रदेशबन्धो योगान्मनोवाक्कायव्यापारात् तस्य प्रदेशस्य कर्मणः ॥३७॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy