________________
प्रशमरतिप्रकरणम्
प्रकृतिरियमनेकविधा स्थित्यनुभावप्रदेशतस्तस्याः ।
तीव्रो मन्दो मध्य इति भवति बन्धोदयविशेषः ॥३६॥
(३६) टीका-प्रकृतिरियमनेकेत्यादि । एवमियं प्रकृतिरनेकविधा द्वाविंशत्युत्तरशतभेदेत्यर्थः । तस्याश्च प्रकृतेः स्थित्यनुभागप्रदेशबन्धेभ्यः स्थितिबन्धोऽनुभागबन्धः प्रदेशबन्धस्तेभ्यः प्रकृतिबन्धविशेषो भवति, तीव्रो मन्दो मध्य इति वा । उदयविशेषोऽपि तीव्रादिभेदः प्रकृतीनां भवति । तीव्राशयस्तदाश्रयेषु वर्तमानस्तीवं प्रकृतिबन्धं करोति, मन्दाशयो मन्दं, मध्याशयो मध्यमिति । बन्धविशेषाच्चोदय इति । तत्र स्थितिबन्धो ज्ञानदर्शनावरणवेद्यान्तरायाणां त्रिंशत्सागरोपमकोटीकोट्य उत्कृष्टः । मोहस्य स्थितिबन्ध उत्कृष्टः सप्ततिसागरोपमकोटीकोट्यः। नामगोत्रयोः स्थितिबन्धो विंशतिसागरोपमकोटीकोट्यः । प्रकृष्टः स्थितिबन्ध आयुषस्त्रयस्त्रिंशत्सागरोपमानि । वेदनीयस्य जघन्या
(३६) (वि०) अथ 'प्रकृतिबन्धपुर:सरमेतासामेवानन्तरोक्तमूलोत्तरप्रकृतीनां स्थितिबन्धादीनाश्रित्य तीव्रादिबन्धोदयानाह-प्रकृतिरिति । प्रकृतिरिति जातावेकवचनम् । इयं पूर्वोक्तस्वरूपा अनेकविधा-बहुप्रकारा, मूलोत्तरभेदतो वर्तत इति शेषः । अनेन प्रकृतिबन्ध इति प्रतिपादितं भवति । तस्याः प्रकृतेः स्थित्यादीनाश्रित्य तीव्रादिभेदो बन्धोदयविशेषो भवतीति सण्टङ्कः । तत्र स्थितिः प्रकृतेर्बद्धायाः सत्या अविनाशेनावस्थानम् । अनुभावस्तु तस्या एव कटुककटुकतरादिभावेन वेदनम् । प्रदेशस्तु कर्मपुद्गलानामात्मप्रदेशैः सह संश्लेषः । ततो द्वन्द्वः, ते तथा तेभ्यः-ततः सकाशात्, तानाश्रित्येत्यर्थः । तस्या इति योजितमेव । किम् ?-तीव्रो-गाढस्तथा मन्दः-स्तोकः तथा मध्यो-मध्यवर्तीत्येवं भवति-जायते बन्धः-सङ्ग्रह उदयः-अनुभवनम्, तयोविशेषो भेदो यः स तथा, बन्धविशेष: उदयविशेषश्चेत्यर्थ इति । किमुक्तं भवति ?-यदा प्रकृतेः स्थितिरुत्कृष्टा भवति तदा अनुभावप्रदेशावप्युत्कृष्टौ भवतः, ततस्तस्यामुत्कृष्टस्थितौ तीव्रौ बन्धोदयौ स्याताम्, एतदनुसारेण मन्दमध्यौ तौ भावनीयाविति । उत्कृष्टा स्थितिर्यथा
आइल्लाणं तिण्हं चरिमस्स य तीस कोडिकोडीओ। अयराण मोहणिज्जस्स सत्तरी होइ विन्नेया ॥१॥ नामस्स य गोत्तस्स य वीसं उक्कोसिया ठिई भणिया ।
तेत्तीस सागराइं परमा आउस्स बोद्धव्वा ॥२॥ जघन्या तु-वेयणियस्स उ बारस नामगोयाण अट्ठ उ मुहुत्ता ।
सेसाण जहन्नठिई भिन्नमुहत्तं विणिद्दिट्ठा ॥३॥
(३६) (अव० ) तस्याः प्रकृतेर्बन्धोदययोर्विशेषोऽविनाशेनावस्थितिः स्थितिः, अनुभागो रसः, प्रदेशो दलसञ्चयः ॥३६॥