________________
प्रशमरतिप्रकरणम्
आतपनाम उद्योतनाम उच्छासनाम विहायोगतिनाम प्रत्येकशरीरनाम साधारणशरीरनाम त्रसनाम स्थावरनाम शुभनाम अशुभनाम सुभगनाम दुर्भगनाम सुस्वरनाम दुःस्वरनाम सूक्ष्मनाम बादरनाम पर्याप्तनाम अपर्याप्तनाम स्थिरनाम अस्थिरनाम आदेयनाम अनादेयनाम यशोनाम अयशोनाम तीर्थकरनाम चेति । गोत्रस्योत्तरप्रकृतिद्वयम् उच्चैर्गोत्रं नीचैर्गोत्रं च । अन्तरायोत्तरप्रकृतयः पञ्च दानान्तरायं लाभान्तरायं भोगान्तरायम् उपभोगान्तरायं वीर्यान्तरायं चेति । एवमेषामष्टानामपि कर्मणामुत्तरप्रकृतयः सप्तनवतिर्भवन्तीति । नामकर्मणः पुनरपि चतुर्विधा गतिरित्यादिनामभेदेन सप्तषष्टिरुत्तरप्रकृतयो भवन्ति । शेषाणां पञ्चपञ्चाशत् । एतदुभयमेकीकृतं द्वाविंशत्युत्तरं प्रकृतिशतं भवति । तत्रापि विंशत्युत्तरप्रकृतिशतस्य बन्धः । “सम्यक्त्वसम्यमिथ्यात्वयोर्नास्ति बन्धः । यतो मिथ्यात्वदलिकमेव विशुद्धं१० सम्यक्त्वमुच्यते । सम्यमिथ्यात्वमपि ११दरविशुद्धं मिथ्यात्वमेवोच्यत इति ॥३५॥ विंशतिविधमित्युभयमीलनेऽष्टाविंशतिभेदम् । आयुर्नरकादिभेदाच्चतुर्धा । नामकर्म द्विचत्वारिंशभेदं, तत्र गतिजात्यादिपिण्डप्रकृतयश्चतुर्दश, प्रत्येकप्रकृतयोऽष्टौ, त्रसादिविंशतिरिति मीलिता द्विचत्वारिंशत् । तथा गोत्रमुच्चैर्नीचैर्भेदाद् द्वेधा । दानादिभेदादन्तरायं पञ्चविधमिति । 'अत्र यद्यपि केनापि अभिप्रायेण सप्तनवतिः प्रतिपादिता तथापि बन्धप्रस्तावाविंशत्यधिकं शतं ग्राह्यम् । तच्च नाम्नः कथञ्चित्पिण्डप्रकृतिविस्तारे षट्षष्टिर्भवति, तस्याः सप्तकर्मप्रकृतिमध्यप्रक्षेपे सम्यक्त्वमिश्रद्वयापनये च विंशत्यधिकं शतं भवति । तदुक्तम्
चउ गड ४जाई ५ तण पण ५ अंगोवंगाडं ३ छच्च संघयणा ६ । छागिइ ६ चउ वन्नाई ४ चउ अणुपुव्वि ४ दुह विहगगई २ । ॥१॥ इय गुणचत्ता ३९ सेसऽट्ठवीस २८ मिय सत्तसट्ठि ६७ नामस्स । सेससगकम्म ५५ जोगे सम्मामीस विणु वीससयं ॥२॥ (चतुर्गति-जातितनुपञ्चकाङ्गोपाङ्गानि षट् च संहननानि । षडाकृतयः चतुर्वणादयश्चतस्रानुपूर्व्यः द्विधा विहायोगतिः ॥ इत्येकोनचत्वारिंशत् शेषाष्टाविंशतिरिति सप्तषष्टिर्नाम्नः । शेषशतकर्मयोगे सम्यमिश्रं विना विंशतिशतम् ॥)
विस्तरतः प्रकृतिवर्णनाद्यन्यतोऽवसेयमिति । अन्ये त्वेवमाहुः-पञ्च नव व्यष्टाविंशतिश्चतुरित्यादिपाठान्तरमाश्रित्य यथा पञ्च नवेति पदद्वयं प्रथमाबहुवचनान्तम्, ततश्चाग्रेतनभेदशब्दोऽन्यशब्दसम्बद्धोऽपि इत्थं योज्यते-पञ्च भेदा ज्ञानावरणस्य नव भेदा दर्शनावरणस्य । द्वाभ्यां "युक्ता अष्टाविंशतिः सा तथा । ततो द्वौ भेदौ वेद्यस्य अष्टाविंशतिर्भेदा मोहनीयस्य । तथा चत्वारश्च षट्कसप्तगुणश्च ते भेदा यस्य बन्धस्य स तथा । ततश्च चत्वारो भेदा आयुषः, षट्कसप्तगुणोद्विचत्वारिंशद्भेदा नाम्नः, द्वौ वारौ द्विः, द्विश्च पञ्च च.१ ते तथा भेदा यस्य स तथा । तत्र भेदद्वयं गोत्रस्य पञ्च भेदा अन्तरायस्येति ॥३५।।