________________
प्रशमरतिप्रकरणम्
पञ्चनवद्वयष्टाविंशतिकश्चतुःषट्कसप्तगुणभेदः । द्विपञ्चभेद इति सप्तनवतिभेदस्तथोत्तरतः ॥३५॥
मोहोऽनन्तानुबन्ध्यादिः । यस्य कर्मणः प्रसादाज्जीवतीत्युच्यते प्राणान् धारयते तदायुः । नाम्यन्ते प्राप्यन्ते येन गतिजात्यादिस्थानानि तन्नाम । विशिष्टकुलजात्यैश्वर्यादिप्रापणसमर्थमुच्चैर्गोत्रं, तद्विपरीतं नीचैर्गोत्रम् । दानलाभादिविघ्नकारि चान्तरायमिति । मूले भवो मौलः कर्मबन्धः ॥३४॥
(३५) टीका-यद्येष मौलोऽष्टविधोऽथोत्तर: कतिविध इत्याह-पञ्च नवेत्यादि । ज्ञानावरणस्योत्तरभेदाः१ पञ्च मतिज्ञानावरणादयः । दर्शनावरणस्योत्तरप्रकृतयो नव चक्षुर्दर्शनावरणादिचतुष्टयं निद्रापञ्चकं च । वेदनीयं द्विविधं सद्वेद्यमसद्वेद्यं च । मोहोत्तरप्रकृतयोऽष्टाविंशतिः सम्यक्त्वं मिथ्यात्वं सम्यमिथ्यात्वम्, अनन्तानुबन्धिनश्चत्वारः क्रोधादयः, अप्रत्याख्यानाश्चत्वारः, प्रत्याख्यानावरणाश्चत्वारः, सञ्चलनाश्चत्वारः, हास्यं रतिः अरतिः भयं शोको जुगुप्सा च, स्त्रीवेदः पुंवेद: नपुंसकवेदश्चेति । आयुषश्चतस्र उत्तरप्रकृतयो नारकायुस्तिर्यगायुर्मनुष्यायुर्देवायुरिति । षट् सप्तगुणा द्विचत्वारिंशद्भवति । अतो नामकर्मण उत्तरप्रकृतयो द्विचत्वारिंशद् भवन्ति । प्रतिपदपाठात्तु श्रूयन्ते तद्यथा-गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम निर्माणनाम ५बन्धननाम संस्थाननाम सङ्घातनाम संहनननाम स्पर्शनाम रसनाम वर्णनाम गन्धनाम आनुपूर्वीनाम अगुरुलघुनाम उपघातनाम पराघातनाम
आह-ज्ञानदर्शनयोरावरणशब्दस्य प्रत्येकमभिसम्बन्धात् ज्ञानावरणदर्शनावरणवेद्यमोहायुषां कृतद्वन्द्वानां तथा नाम्नो गोत्रान्तराययोश्चेति ॥३४॥
(३५) (वि०) अथोत्तरः स कतिविध इत्याह-पञ्चेति । सप्त गुणा यस्य स सप्तगुणः, षट्कश्चासौ सप्तगुणश्च षट्कसप्तगुणो-द्विचत्वारिंशत्, पञ्च च नव च द्वौ चाष्टाविंशतिका चत्वारश्च षट्कसप्तगुणश्च ते तथाविधाः, ते भेदाः-प्रकारा यस्य स तथा, कर्मबन्ध इति योगः । 'याकाराविति ( ) सूत्रेण ह्रस्वत्वं विंशतिकाशब्दे । तथा द्विश्च पञ्च च द्वि:पञ्च ते भेदा यस्य स तथा, इत्येवमेकत्र मिलने सप्तनवतिभेदा भवन्तीति शेषः। तथा समुच्चयार्थः, उत्तरत:उत्तरभेदानाश्रित्य । अयमर्थः-ज्ञानावरणीयमुत्तरभेदापेक्षया मतिज्ञानावरणीयादि पञ्चधा । एवं दर्शनावरणीयं चक्षुर्दर्शनावरणादिचतुष्कं निद्रापञ्चकं चेति नवविधम् । वेदनीयं तु सातासातरूपं द्वधा । मोहनीयं पुनद्विधा दर्शनमोहनीयं चारित्रमोहनीयं च, तत्र मिथ्यात्वमिश्रसम्यक्त्वभेदात् दर्शनमोहनीयं त्रिधा, अनन्तानुबन्धिप्रभृतिकषायषोडशक-हास्यादिषट्कवेदत्रिकभेदाच्चारित्रमोहनीयं पञ्च