________________
प्रशमरतिप्रकरणम्
मिथ्यादृष्ट्यविरमणप्रमादयोगास्तयोर्बलं दृष्टम् । तदुपगृहीतावष्टविधकर्मबन्धस्य हेतू तौ ॥३३॥
स ज्ञान - दर्शनावरण-वेद्य - मोहायुषां तथा नाम्नः । गोत्रान्तराययोश्चेति कर्मबन्धोऽष्टधा मौलः ॥३४॥
२१
( ३३ ) टीका-तौ पुनर्ममकाराहङ्कारौ रागद्वेषौ वा किं केवलावेव ज्ञानावरणीयादिकर्मबन्धे पर्याप्तौ 'अन्यथान्यमपि कञ्चित्सहायमपेक्षेते इत्याह- मिथ्यादृष्ट्यविरमणेत्यादि । २मिथ्यादर्शनं तत्पूर्वमुक्तं तत्त्वार्थाश्रद्धानलक्षणम् । अविरमणमविरतिरनिवृत्तिः । पापाशयाद्विषयेन्द्रियनिद्राविकथाख्यश्चतुर्विधः प्रमादः । मनोवाक्कायाख्या योगाः । एतांश्चतुरः सहायानपेक्षेते ममकाराहङ्कारौ रागद्वेषौ वा कर्मणि बन्धितव्ये । तयोरित्येतावदेव 'सम्बध्यते । बलमित्युपकारकत्वम् । उपकारका मिथ्यादर्शनादयः । तयो रागद्वेषयोः । तैश्चोपगृहीतावेतौ । मिथ्यादर्शनादिभी रागद्वेषावष्टप्रकारस्य कर्मबन्धस्य हेतुत्वं प्रतिपद्येते इति ॥३३॥
T
(३४) टीका-'अष्टविधबन्धमादर्शयन्नाह - स ज्ञानदर्शनावरणेत्यादि । स खलु तद्धेतुकः कर्मबन्धो ज्ञानावरणीयादिभेदेनाष्टधा भवति । ज्ञानावरणं दर्शनावरणं वेद्यं मोहनीयमायुर्नाम गोत्रमन्तरायमित्यष्टौ मूलभेदाः । क्षयोपशमजं क्षायिकं २ वा ज्ञानमाव्रियते येन कर्मणा तज्ज्ञानावरणम् । चक्षुर्दर्शनाद्याव्रियते येन तद्दर्शनावरणं, निद्रादिपञ्चकं च, तदपि हि दर्शनमावृणोत्येव । वेद्यं सुखानुभवलक्षणं दुःखानुभवलक्षणं च । मुह्यत्यनेन जीव इति
( ३३ ) ( वि० ) अनन्तरं रागद्वेषा' (वुक्ता) वथ तयोरेव सैन्यसामर्थ्यमाह - मिथ्यादृष्ट्येति । मिथ्यादृष्टिः मिथ्यात्वम्-आभिग्रहिकादि पञ्चधा । अविरमणम् - अविरतिः पृथिव्यादिषु द्वादशविधम्, प्रमादो-मद्यादिः पञ्चप्रकारः, योगाः - सत्यादयः पञ्चदशविधाः, ततो द्वन्द्वः ते । तयोः - अनयो रागद्वेषयोर्बलम्-आदेशकारि सैन्यम्, दृष्टं - जिनैः कथितम्, तैरुपगृहीतौ - मिथ्यात्वादिभिः कृतसामर्थ्यो सन्तावष्टविधकर्मबन्धस्य हेतू - कारणे भवतः ||३३|| इति रागाद्यधिकारः ॥ ३ ॥
(३४) (वि०) तं कर्मबन्धं मूलत आह- स इति । कर्मणां बन्धः कर्मबन्धः स पूर्वोद्दिष्टोऽष्टधा भवतीति सम्बन्धः । कीदृश: ? - मौलो - मूलप्रकृतिसम्बन्धी । किंनाम्नां कर्मणामत
(३३) (अव०) मिथ्यादर्शनं तत्त्वार्था' श्रद्धानलक्षणम्, २ अविरतिः, प्रमादो मद्यादिः, योगाः सत्यादयः, तन्मिथ्यात्वाविरतिप्रमादादियुतौ रागद्वेषौ ॥३३॥
(३४) (अव०) मूलप्रकृतिसम्बन्धी ॥३४॥