________________
प्रशमरतिप्रकरणम्
ममकाराहङ्कारावेषां मूलं पदद्वयं भवति । रागद्वेषावित्यपि तस्यैवान्यस्तु पर्यायः ॥३१॥ मायालोभकषायश्चेत्येतद्रागसज्ञितं द्वन्द्वम् । क्रोधो मानश्च पुनद्वैष इति समासनिर्दिष्टः ॥३२॥
(३१) टीका-एषामेव कषायाणामाद्यविकल्पद्वयप्रदर्शनार्थमाह-ममकाराहङ्कारेत्यादिति । ममकारो ममत्वं ममेदमिति मायालोभकषाययोर्ग्रहणम् । अहंकारो गर्वः स चाभिमानक्रोधलक्षणः । मायामपि द्रव्योत्पादनाय वणिजः कुर्वन्ति क्रयविक्रयादिष्वतो ममकारान्त:पातिन्येव । क्रोधो ह्यभिमानादेव क्रियते । किमित्ययं मामाक्रोशतीत्याहन्ति वा जघन्यः सन्नित्यतोऽहङ्कार एवैषामिति क्रोधादीनां मूलं बीजमेतदेव पदद्वयं ममकारोऽहङ्कार इति च । तथा२ रागद्वेषावपि बीजभूतौ ३क्रोधादीनां द्रष्टव्यौ । तस्यैव पदद्वयस्यापर: पर्यायो ममकारो रागोऽहङ्कारो द्वेषः ॥३१॥ ।
(३२) टीका-अथैषां क्रोधादीनां चतुर्णां कषायाणां को रागः को वा द्वेष इत्याहमायालोभकषायेत्यादि । उक्तलक्षणौ मायालोभौ । तावेव द्वन्द्वं मिथुनं रागसञ्जितं रागनामकम् । क्रोधमानौ चोक्तलक्षणावेव । एतदपि द्वन्द्वं द्वयं द्वेष इति निर्दिश्यते सङ्क्षपतः ॥३२॥
(३१) (वि०) अथ मूलभणनपूर्वं पृथक्पदद्वयेनैषाम् अन्तर्भावमार्याद्वयेनाहममकारेति। मायेति । ममकारो-ममेदम् अहमस्य स्वामीत्याद्यध्यवसायः । अहङ्कारस्त्वहमेव प्रधानोऽन्यो ममाधम इत्यादिपरिणामस्तौ । तथा किमित्याह-एषां कषायाणां मूलं-बीजम् उत्थानमित्यर्थः । पदद्वयमुक्तस्वरूपं भवति-जायते । तत्र ममकारे मायालोभौ, अहङ्कारे क्रोधमानौ स्तः, इत्याभ्यां चत्वारोऽपि कषाया गृहीताः । तथा रागद्वेषौ-प्रीत्यप्रीती क्रोधादीनामुत्थानभूताविति प्रक्रम इति, अपिशब्द उपप्रदर्शनार्थः । तस्यैव-ममकाराहङ्कारपदद्वयस्यैव, अन्यः-अपरः, तुः समुच्चयार्थः, पर्यायो-नामान्तरम्, भावार्थः प्राग्वदिति ॥३१॥
(३२) (वि०) सुगमम् । किन्तु द्वन्द्वं युग्मं समासः-सक्षेपार्थो, भावार्थस्तु पूर्वार्याभावनातोऽवसेय इति ॥३२॥
(३१) (अव०)-ममकाराहङ्कारयो रागद्वेषावपरपर्यायः पदद्वयस्य पर्यायो नामान्तरम् ॥३१॥ (३२) (अव०)-द्वन्द्वं युगलं, समासः सक्षेपः ॥३२॥