SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ? ॥२९॥ एवं क्रोधो मानो माया लोभश्च दुःखहेतुत्वात् । सत्त्वानां भवसंसारदुर्गमार्गप्रणेतारः ॥३०॥ (२९) टीका-सर्वविनाशाश्रेत्यादि । सर्वेषां विनाशानामपायानामाश्रयो लोभःस्थानमुपघ्नः । चौरपारदारिकवैरसन्तानादयः सर्वे विनाशाश्चौर्यादिनिमित्ताः । सर्वविनाशाश्रयणशीलः सर्वविनाशाश्रयी । सर्वाणि व्यसनानि स्त्रीद्यूतमद्यपानाखेटकवचनदण्डपारुष्यार्थदूषणाख्यानि । हिताद् व्यंसयन्ति पुरुषमिति व्यसनानि । तेषामेष लोभकषाय एको राजमार्गः । सर्वाणि व्यसनानि लोभाभिभूतं योग्यमाश्रयमासाद्य विश्राम्यन्ति । राजमार्गो हि द्विजादिभिश्चाण्डालादिभिश्च सर्वैः क्षुद्यते यथा, तथा लोभ एव राजमार्ग इव राजमार्ग: सर्वव्यसनैः क्षुद्यते । एवंविधस्य लोभस्य मुखगतो गोचरीभूतो लोभपरिणामभाक् । कः खलु दुःखान्तरं-सुखं, दुःखादन्यत्सुखमुपेयादुपगच्छेदिति प्रतीतिन्यायाद् ग्राह्यं सुखमेवेति । नैव कदाचित्सुखं प्राप्नुयादित्यर्थः ॥२९॥ (३०) टीका-सम्प्रति बहुदोषं कषायार्थमुपसंहरन्नाह-एवं क्रोधो मानो मायेत्यादि । सर्व एते कषायास्तीव्रस्य प्रकर्षप्राप्तस्य नरकगत्यादिदुःखस्य हेतवो जनकाः कारणभूता इति । केषां दुःखहेतवः? सत्त्वानां प्राणिनाम् । दुःखहेतुत्वाच्च भवसंसारदुर्गमार्गप्रणेतारो भवन्ति । भवो नरकादिजन्म तदेव संसारः पुनः पुनर्गमनादुर्गो विषमो भयानकस्तस्य यो मार्गः पन्थास्तस्य प्रणेतारः प्रवर्तका नायका देशकाः । कः पुनरसौ मार्गः? हिंसानृताद्याचरणलक्षणः ॥३०॥ __ (२९) (वि०) सर्वविनाशाश्रयिणः-निखिलापायभागिन:१ सर्वव्यसनानां-छूतादीनामेक:-अद्वितीयो राजमार्गः-सर्वसञ्चरणपथः, तस्य लोभस्य को मुखगतो-ग्रासीभूतः, क्षणमपिस्तोककालमपि, आस्तां प्रभूतकालम्, दुःखान्तरम्-असातव्यवधानमुपेयात्-गच्छेत् ? । इत्यार्याचतुष्टयार्थः ॥२९॥ (३०) (वि०) अथ सामान्येनैषां भवमार्गनायकत्वमाह-एवमिति । एते क्रोधादयो दुःखहेतुत्वात् सत्त्वानां-जीवानाम्, कथम्भूता भवन्तीत्याह-भवे-नरकादौ, संसारः संसरणं तत्र दुर्गमार्गो-विषमाध्वा तस्य प्रणेतारो-नायका इत्यार्यार्थः ॥३०॥ इति कषायाधिकारः ॥२॥ (२९) (अव०) सर्वेषामपायानां स्थानस्य, १निखिलापायभागिनः द्यूतादिसर्वव्यसनराजमार्गस्य सर्वसञ्चरणपथस्य ग्रासीभूतः क्षणमपि स्तोककालमपि आस्तां प्रभूतकालं दुःखादन्यत् सुखमुपगच्छेदिति प्रतीतिः ॥२९॥ (३०) (अव० ) भवे नरकादौ संसरणं, तत्र दुर्गमार्गो विषमाध्वा तस्य प्रणेतारो १प्ररूपका नायका कारणभूतत्वात् ॥३०॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy