________________
प्रशमरतिप्रकरणम्
श्रुतशीलविनयसन्दूषणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं मुहूर्तमपि पण्डितो दद्यात् ॥२७॥ मायाशीलः पुरुषो यद्यपि न करोति किञ्चिदपराधम् । सर्प इवाविश्वास्यो भवति तथाप्यात्मदोषहतः ॥२८॥
(२७) टीका-श्रुतेति । श्रुतमागमः शीलं' सर्वज्ञप्रणीतागमानुसारि क्रियानुष्ठानम् । उभयमप्येतद् गर्वो भृशं दूषयति । श्रुतवानप्ययमेवं गर्वितः । श्रुतेन तु मानत्यागः कार्य इति श्रूयते, अयं तु तेनैव मत्तो-मानी जातः । नन्वेवं श्रुतवतो दूषणं कृतं भवति न श्रुतस्य, उच्यते-श्रुतमपि दूषितं भवति, श्रुतकार्याकरणात् । ज्ञानेन हि मदो निर्मथ्यते, न चासौ निर्मथित इति श्रुतमेव दूषितं भवति । अभेदो वा ज्ञानज्ञानिनोरिति न दोषः । एवं शीलमपि वाच्यं विनयरहितत्वाद्दुःशील एवायमिति । धर्मार्थकामानां विघ्नकारी मानः । धर्मस्य विनयमूलत्वाद्धर्मविघ्नकारी मानः । तदनुष्ठानशून्यत्वादर्थोत्पादनस्यापि प्रत्यूहकारी । यतो राजादयः सेवकस्य २विनयवत एवार्थेन सह योजनं कुर्वन्ति नेतरस्य । कामस्यापि सम्प्राप्तिर्विनयसम्पन्नस्यैव भवति । कुलयोषितां वेश्यानां च चित्तानुरोधलक्षणया चेष्टया कामी सुखभाग्भवति । एवंविधस्य गर्वस्यावकाशं ढौकनमात्मनि क्षणमात्रमपि मतिमान् को दद्यात् ? इति, नैव कश्चिद् गुणदोषज्ञो दद्यादित्यर्थः ॥२७।।
(२८) टीका-मायाशीलः पुरुषो यद्यपि न केत्यादि । माया शाठ्यमनार्जवं तच्छीलस्तत्स्वभाव आत्मा । यद्यपि न १क्व(किंचिदप्यपराधं करोति मायाजनितं । २सम्भावितश्च मायावित्वेन पूर्वे दृष्टदोषः । सम्प्रति तु विरतस्तदोषात् । तथाप्यात्मीयेनैव दोषेणोपहतो भवति । भुजङ्गवदविश्वसनीयोऽविश्वास्यः । उद्धृतदंष्ट्रोऽपि भुजङ्गो दूरात् परिहियते लोकेनेति । शुकादयो मायाफलभाजः श्रूयन्त एवेति ॥२८॥
(२६-२७) (वि०) अथ प्रत्येकमार्याचतुष्टयेन कषायदोषानाह-क्रोध इत्यादि । आर्याद्वयमपि सुगमम् ॥२६॥२७|
__ (२८) (वि०) मायाशीलः-शाठ्यस्वभावः पुरुषो यद्यपि न करोति किञ्चिदपराधमिति व्यक्तम् तथाप्यात्मदोषहतः-स्वदूषणतिरस्कृत 'इत्यविश्वास्यो भवति । 'किंवत् ? सर्पवत्-सर्प इव । यथा सर्प उत्खातदशनोऽप्यविश्वसनीयो भवति एवं मायाव्यपि नर इत्यार्यार्थः ॥२८॥
(२८) (अव०)-आत्मीयेनैव दोषेणोपहतो भवति ॥२८॥