________________
प्रशमरतिप्रकरणम्
क्रोधात् प्रीतिविनाशं मानाद् विनयोपघातमाप्नोति । शाठ्यात् प्रत्ययहानि सर्वगुणविनाशनं लोभात् ॥२५॥ क्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ॥२६॥
नाममात्रेणापि व्याख्यातुं समर्थः । अनर्थभूयसि संसारे "कियन्तोऽना नामग्राहं प्रतिपादयितुं ५शक्येरन् ? ॥२४॥
(२५) टीका-यद्यपि सकलानर्थानाख्यातुं न शक्यन्ते तथापि स्थूलतरकतिपयानाख्यानमपायेभ्यो भव्यांश्छोटयत्येवेत्याह-क्रोधादिति । क्रोधनं क्रोधः आत्मनः परिणामो मोहकर्मोदयजनितस्तस्मादेवंविधात्परिणामादिहलोके एव प्रीतिव्यवच्छेदो भवतीति प्रियतमैरपि साकम् । व्यवच्छिन्नायां च प्रीतावनिर्वृतिरात्मनः । मानो गर्वस्तम्भोऽहमेव ज्ञानी दाता शूर इत्यादिक आत्मपरिणामस्तस्माद्विनयोपघातमवाप्नोति२ । विनयमूलश्च धर्मः । देवगुरुसाधुवृद्धेषु यथायोग्यं विनयः कार्यः । स चोपजातगर्वपरिणामस्य विहन्यते विच्छिद्यत इति दोषः । शाठ्यपरिणामो माया तस्मात्प्रत्ययहानिं । प्रत्ययो लोकव्यवहारप्रसिद्ध्या क्वचित्पुरुषे सत्यवादित्वं न्यासक प्रत्यर्पणं चेत्यादि । तद्धानिः असत्यभाषणं३ शाठ्यपरिणामात् न्यासकापह्नवश्चेति । तृष्णा लोभपरिणाम आत्मनस्तस्माच्च सर्वगुणविनाशभाग्भवति । सर्वे च ते गुणाश्च ४क्षमार्जवादयस्तान् लोभाभिभूतः समूलकाषं कषति । आप्नोतीति मध्यवतिना क्रियापदेन सर्वत्राभिसम्बन्धः ॥२५॥
(२६) टीका-सम्प्रत्येकैकस्य क्रोधादेः कषायस्य व्यासेनापायानाह-क्रोध इति । परितापो हि दाहज्वराभिभूतस्येव क्रोधिनः २परिदहनमस्वस्थतोद्वेगो भयम् । सर्वस्येति नारकतिर्यङ्मनुष्यदेवाख्यस्यात्मनो भयमुत्पादयति । कुतश्चिन्निमित्तादुत्पन्नो वधबन्धनाभिघातादिसन्तानो वैरं तस्यानुषङ्गोऽनुबन्धोऽन्वयस्तं जनयत्युत्पादयति । क्रोधः सुगतिर्मोक्षस्तां हन्ति । मुक्त्यप्रापणसामर्थ्याद्धन्तीत्युच्यते । क्रोधाविष्टाश्च सुभौमपरशुरामादयः श्रूयन्ते दुर्गतिगामिनः पारमर्षे प्रवचने । तस्मादिहपरलोकयोरपायकारी क्रोध इति युक्तः परिहर्तुम् ॥२६॥
भणितुमपि, आस्तां परिहर्तुम्, शक्तः-समर्थो, भवतीति शेषः इत्यार्यार्थः ॥२४॥
(२५) (वि०) तानेव लेशत आह-क्रोधादिति । आप्नोतीति क्रियापदं चतुर्वपि पदेषु योज्यम् । शेषं सुगममिति ॥२५।।
(२५) (अव०)-आप्नोतीति चतुःष्वपि पदेषु योज्यम् ॥२५॥