SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् दुःखसहस्रनिरन्तरगुरुभाराक्रान्तकर्षितः करुणः । विषयसुखानुगततृषः कषायवक्तव्यतामेति ॥२३॥ स क्रोधमानमायालोभैरतिदुर्जयैः परामृष्टः । प्राप्नोति याननन् कस्तानुद्देष्टमपि शक्तः ? ॥२४॥ (२३) टीका-दुःखसहस्रमित्यादि । बाहुल्यप्रतिपादनार्थं सहस्रग्रहणम् । दुःखसहस्राण्येव निरन्तराण्यविच्छिन्नानि रेनरकतिर्यङ्मनुष्यामरभवेषु गुरुरिस्तेनाक्रान्तत्वादवष्टब्धत्वात् कर्षितः कृशतां नीतो दुर्बलतां नीतो दुर्बलतां गत इति यावत् । करुणास्पदत्वात् करुणः । तृष्यतीति तृषः ४पिपासितः । विषयाः शब्दादयः । तज्जनितं सुखं विषयसुखम् । तदनुगतस्तत्रासक्तो विषयसुखानुगतश्चासौ तृषश्चेति विषयसुखानुगततृषः । उपजातविषयसुखोऽपि पुनस्तृष्यति विशिष्टतरमभिलषतीत्यर्थः । एवंविधो जीवः कषायाणां क्रोधादीनां वक्तव्यतामेति । क्रोधी मानी मायावी लोभवांश्चेति । उक्तलक्षणः कषायशब्दः कषायैर्वक्तव्यः क्रोधादिभिरित्यर्थः ।।२३।। (२४) टीका-स पुनः कषायवक्तव्यतां गतः१ किमवाप्नोतीत्याह-स क्रोधमानमायेत्यादि । स खल्वेवंविधः समुपजातकषायपरिणामः । क्रोधादिभिः परामृष्टः । अतीव दुर्जयैरिति नाल्पसत्त्वैर्जेतुं शक्याः कषाया इति दुर्जयास्तै:२ परामृष्टः परिभूतः कषायवशंगत इत्यर्थः । प्राप्नोति याननर्थानापद्विशेषान् वधबन्धादीन् । कस्ताननर्थान् वचनमात्रेणापि (२३) (वि०) दुःखसहस्राण्येव निरन्तरो-विश्रामरहितो गुरु:-महान् भारस्तेन आक्रान्तः-पीडितः स तथा, तथा कषितो-विलिखितः, क्वापि कशित इति दृश्यते, तत्र कशितोदुर्बलीभूतः, ततः पदद्वयस्य कर्मधारयः । तथा करुणः-दीनः । तथा अनुगतः, ईषदासक्तस्तृष्यतीति तृषः-प्राचुर्येण पिपासितः, ततः पदद्वयस्य कर्मधारयः । ततो विषयसुखेष्वनुगततृष इति समासः । अन्ये त्वनुगततृषः कृताभिलाष इत्याहुः । स किमित्याह-कषायवक्तव्यतामेति -क्रोधादिवा(मा)नेष इति भणनीयतां याति । इत्यार्याचतुष्टयस्यार्थः, ॥२३॥ इति शास्त्रस्य पीठबन्धः ॥१॥ (२४) (वि०) स कषायवक्तव्यतानुगतः प्राणी यानपायान् प्राप्नोति तद्भणनेऽशक्तिमाहस इति । स जीवः क्रोधादिभिरतिदुर्जयैः-कष्टेनाभिभवनीयैः परामृष्टो-वशीकृतः । किमित्याहप्राप्नोति-लभते, यान् कांश्चिद् अनर्थान्-अपायान्, कः ?, न कश्चिदित्यर्थः । ताननानुद्देष्टुमपि (२३) (अव०)-कर्षितो विलक्षितः,१ कृशो दीनः, अनुगत आसक्तनवनवाभिलाषः, क्रोधी मानीत्यादिकथनीयताम् ॥२३॥ (२४) (अव०) वक्तुमपि शक्तः आस्तां परिहर्तुम् ॥२४॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy