________________
प्रशमरतिप्रकरणम्
दुःखसहस्रनिरन्तरगुरुभाराक्रान्तकर्षितः करुणः । विषयसुखानुगततृषः कषायवक्तव्यतामेति ॥२३॥ स क्रोधमानमायालोभैरतिदुर्जयैः परामृष्टः । प्राप्नोति याननन् कस्तानुद्देष्टमपि शक्तः ? ॥२४॥
(२३) टीका-दुःखसहस्रमित्यादि । बाहुल्यप्रतिपादनार्थं सहस्रग्रहणम् । दुःखसहस्राण्येव निरन्तराण्यविच्छिन्नानि रेनरकतिर्यङ्मनुष्यामरभवेषु गुरुरिस्तेनाक्रान्तत्वादवष्टब्धत्वात् कर्षितः कृशतां नीतो दुर्बलतां नीतो दुर्बलतां गत इति यावत् । करुणास्पदत्वात् करुणः । तृष्यतीति तृषः ४पिपासितः । विषयाः शब्दादयः । तज्जनितं सुखं विषयसुखम् । तदनुगतस्तत्रासक्तो विषयसुखानुगतश्चासौ तृषश्चेति विषयसुखानुगततृषः । उपजातविषयसुखोऽपि पुनस्तृष्यति विशिष्टतरमभिलषतीत्यर्थः । एवंविधो जीवः कषायाणां क्रोधादीनां वक्तव्यतामेति । क्रोधी मानी मायावी लोभवांश्चेति । उक्तलक्षणः कषायशब्दः कषायैर्वक्तव्यः क्रोधादिभिरित्यर्थः ।।२३।।
(२४) टीका-स पुनः कषायवक्तव्यतां गतः१ किमवाप्नोतीत्याह-स क्रोधमानमायेत्यादि । स खल्वेवंविधः समुपजातकषायपरिणामः । क्रोधादिभिः परामृष्टः । अतीव दुर्जयैरिति नाल्पसत्त्वैर्जेतुं शक्याः कषाया इति दुर्जयास्तै:२ परामृष्टः परिभूतः कषायवशंगत इत्यर्थः । प्राप्नोति याननर्थानापद्विशेषान् वधबन्धादीन् । कस्ताननर्थान् वचनमात्रेणापि
(२३) (वि०) दुःखसहस्राण्येव निरन्तरो-विश्रामरहितो गुरु:-महान् भारस्तेन आक्रान्तः-पीडितः स तथा, तथा कषितो-विलिखितः, क्वापि कशित इति दृश्यते, तत्र कशितोदुर्बलीभूतः, ततः पदद्वयस्य कर्मधारयः । तथा करुणः-दीनः । तथा अनुगतः, ईषदासक्तस्तृष्यतीति तृषः-प्राचुर्येण पिपासितः, ततः पदद्वयस्य कर्मधारयः । ततो विषयसुखेष्वनुगततृष इति समासः । अन्ये त्वनुगततृषः कृताभिलाष इत्याहुः । स किमित्याह-कषायवक्तव्यतामेति -क्रोधादिवा(मा)नेष इति भणनीयतां याति । इत्यार्याचतुष्टयस्यार्थः, ॥२३॥ इति शास्त्रस्य पीठबन्धः ॥१॥
(२४) (वि०) स कषायवक्तव्यतानुगतः प्राणी यानपायान् प्राप्नोति तद्भणनेऽशक्तिमाहस इति । स जीवः क्रोधादिभिरतिदुर्जयैः-कष्टेनाभिभवनीयैः परामृष्टो-वशीकृतः । किमित्याहप्राप्नोति-लभते, यान् कांश्चिद् अनर्थान्-अपायान्, कः ?, न कश्चिदित्यर्थः । ताननानुद्देष्टुमपि
(२३) (अव०)-कर्षितो विलक्षितः,१ कृशो दीनः, अनुगत आसक्तनवनवाभिलाषः, क्रोधी मानीत्यादिकथनीयताम् ॥२३॥
(२४) (अव०) वक्तुमपि शक्तः आस्तां परिहर्तुम् ॥२४॥