SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् १५ कार्याकार्यविनिश्चयसङ्क्लेशविशुद्धिलक्षणैर्मूढः । आहारभयपरिग्रहमैथुनसञ्ज्ञाकलिग्रस्तः ॥२१॥ क्लिष्टाष्टकर्मबन्धनबद्धनिकाचितगुरुर्गतिशतेषु । जन्ममरणैरजस्त्रं बहुविधपरिवर्तनाभ्रान्तः ॥२२॥ ( २१ ) टीका–'कार्यं जीवरक्षादिकम्, अकार्यं जीववधादिकम् । तयोर्विनिश्चयो निर्णयः स तथा । सङ्क्लेशः कालुष्यम् । विशुद्धिर्नैर्मल्यम् । तयोः क्लिष्टचित्ततानिर्मलचित्ततारूपयोर्लक्षणानि परिज्ञानानि । तथा तानि चेति समासः । तैः करणभूतैर्मूढो मुग्धः । तथा आहारभयपरिग्रहमैथुनसञ्ज्ञाः प्रसिद्धरूपास्ता एव कलयः कलहाः, कलिहेतुत्वात् । तैर्ग्रस्त आघ्रात इति ॥२१॥ (२२) टीका- गतिशतेषु बह्वीषु गतिषु । पुनः पुनरावृत्त्या भ्रमन् । क्लिष्टः । अष्टभिः कर्मभिर्बन्धनं तेन बद्धः । बद्धनिकाचितत्वाद् गुरुः । जन्मजरामरणानि तैः । अजस्त्रं पुनः पुनः । बहुविधपरिवर्तनमनेकाकारमतो भ्रान्तः परिवर्तनेन ॥२२॥ (२१) (वि० ) कार्यं जीवरक्षादिकम् अकार्यं जीववधादिकम् तयोर्विनिश्चयो-निर्णयः स तथा, सच सङ्क्लेशः-कालुष्यम्, विशुद्धिः - नैर्मल्यम्, तयोः क्लिष्टचित्ततानिर्मलचित्ततारूपयोर्लक्षणानिपरिज्ञानानि १ तानि च तथा तानि चेति समासः, तैः करणभूतैर्मूढो - मुग्ध:, तथा आहारभयपरिग्रहमैथुनसञ्ज्ञाः- प्रसिद्धरूपास्ता एव कलय:-कलहाः कलिहेतुत्वात् तैर्ग्रस्तः- आघ्रात इति समास इति ॥२१॥ (२२) (वि० ) क्लिष्टानि च तानि क्रूराण्यष्टकर्माणि च बद्धानि प्रसिद्धानि तानि तथा, तान्येव बन्धनं-नियन्त्रणम्, तेन बद्धो - नियन्त्रितः, स चासौ निकाचितश्चेति नियन्त्रितः स तथा, अत एव गुरुः-भाराक्रान्तः, ततः कर्मधारयः । यद्वा क्लिष्टाष्टकर्मणाम् उपलक्षणत्वेन बन्धनबद्धनिधत्तनिकाचितानि कृतद्वन्द्वानीति चत्वारि पदानि दृश्यानि तैर्गुरुः स तथा । अत्र लोहमयः सूचीकलापो दृष्टान्तः, यथा बन्धनं-स्पृष्टं दवरकबद्धसूचीनां मीलनमात्रमिव गुरुकर्मणाम् जीवप्रदेशैः सह योगमात्रमल्पप्रयाससाध्यम् १ तथा बद्धं-सूचीकलापस्य खपरिकयाऽन्योन्यबन्धनमिव तेषां तैः सह २ तथा धत्तं - ध्यातं सूचीनां परस्परसमलुलितत्वमिव, शेषं तथैव ३ तथा निकाचितं - वह्नितप्तकुट्टितसूचीनां निर्नष्टविभागत्वमिव, शेषं तथैव ४। केष्वेवं बन्धो ? - गतिशतेषु, कैः करणभूतैः ? - जन्ममरणैरजस्रम्-अनवरतम् बहुविधपरिवर्तनाभ्रान्तः-अनेकप्रकारघोलनापर्यटित इति ॥२२॥ (२१) (अव०) विनि० (श्चयः ) - निर्णयः, १ सङ्क्लेशः - कालुष्यं विशुद्धिर्नैर्मल्यं तयोर्लक्षणं परिज्ञानम् । सञ्ज्ञा एव कलयः ॥ २१ ॥ (२२) (अव०) बन्धनं- स्पृष्टं बन्धमात्रं दवरकबद्धसूचीकलापवत्, १ध्मातं- सूचीनां परस्परसंलुलितमिव, निकाचितं वह्नितप्त कुट्टितसूचीकलापवत्, निरन्तरं बहुविधघोलनाद् भ्रान्तः ॥२२॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy