________________
प्रशमरतिप्रकरणम्
रागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृष्ट्या । पञ्चाश्रवमलबहुलातरौद्रतीव्राभिसन्धानः ॥२०॥
(२०) टीका-काः पुनः क्रियाः कुर्वन्नयमात्मा रागद्वेषवशगो भवतीति कारिकात्रयेण कुलकमाह-१रागेति । कार्येति । क्लिष्टेति । पर्यायद्वारेणोक्तौ रागद्वेषौ ताभ्यां परिगतस्तादृशपरिणामयुक्तः । मिथ्यात्वं तत्त्वार्था श्रद्धानमभिगृहीतानभिगृहीतसन्देहभेदात्त्रिविधम् । अभिगृहीतं त्रयाणां त्रिषष्ट्यधिकानां परवादिशतानाम् । अनभिगृहीतमप्रतिपन्नदेवतापाखण्डरूपम् । सन्दिग्धमेकस्याप्यक्षरस्य पदस्य वाप्यरोचनान्मिथ्यादर्शनम् । तेनोपहतत्वात् कलुषा दृष्टिर्बुद्धिमलिनेत्यर्थः । तयेत्थंभूतया दृशा बुद्ध्या करणभूतया । पञ्चाश्रवाः पञ्चेन्द्रियाणि प्राणातिपातादीनि वा । आश्रवन्त्याददते कर्मेत्याश्रवाः । पञ्चाश्रवोपात्तकर्मणैव मलबहुल उपचितकर्मराशिः । आतं चतुर्धा । अमनोज्ञविषयसम्प्रयोगे सति तद्वियोगैकतानो मनोनिरोधो ध्यानं, तथासवेदनायाः, तथामनोज्ञविषयसम्प्रयोगे तदविप्रयोगैकतानश्चित्तनिरोधः तृतीयमार्तं, चक्रवर्त्यादीनामृद्धिदर्शनान्ममाप्यमुष्य तपसः फलमेवंविधमेव स्यादन्यजन्मनीति चित्तनिरोधः चतुर्थमार्तं निदानकरणमिति । ऋतमिति दुःखं सङ्क्लेशस्तत्र भवमार्तमिति । रौद्रः क्रूरो नृशंसस्तस्येदं रौद्रं । तदपि चतुर्धा । तत्र प्रथमं हिंसानुबन्धि । 'अनेनानेनोपायेन परा६ गलकूटपाशबन्धादिना प्राणिनो व्यापाद्या' इति तत्रैकतानता मनोनिरोधो रौद्रं ध्यानम् । द्वितीयमनृतानुबन्धि येन येनोपायेन वञ्च्यते कूटसाक्षिदानादिना तत्रैकतानं मनो रौद्रम् । तृतीयं स्तेयानुबन्धि येन येन प्रकारेण परस्वमादीयते घुघुरुक-कर्तरिकाच्छेद-"क्षात्रखननादिना तत्रैकतानं मनो रौद्रम् । धनधान्यादिविषयसंरक्षणैकतानं मनो दिवानिशि तुरीयं रौद्रम् । अभिसन्धानमभिसन्धिरभिप्रायः । स चार्तरौद्रध्यानयोस्तीव्रः प्रकृष्टोऽभिसन्धिः पञ्चाश्रवमलबहुलश्चासावार्तरौद्रतीव्राभिसन्धानश्चेति ॥२०॥
(२०) (वि०) अथ यादृश आत्माऽनयोरुदये भवति तादृशमार्याचतुष्टयेनाह-रागेति । कार्येति । क्लिष्टेति । दुःखेति । रागद्वेषाभ्यां परिगतो व्याप्त इति समासः । मिथ्यात्वेनोपहता मिथ्यात्वोपहता सा चासौ कलुषा च-मलिना सा तथा तया । कया एवंविधया ?-दृष्ट्या बोधरूपया करणभूतया। किमित्याह-पञ्चास्रवाः-प्राणातिपातादयः, तैः करणभूतैर्मल:-कर्मबन्धस्तेन बहुलोव्याप्तः स तथा तया स चासावार्तरौद्रयोस्तीव्राभिसन्धानश्च गाढचिन्तनः स तथेति समास इति ॥२०॥
(२०)(अव०)-मिथ्यात्वोपहतकलुषया दृष्ट्या विपरीतया युक्तः ।मल-उपचितकर्मराशि: पञ्चाश्रवमलबहुलश्चासावार्तरौद्रतीव्राभिसन्धानश्च । अभिसन्धानं तीव्राध्यवसायः ॥२०॥