SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् इच्छा मूर्छा कामः स्नेहो गार्थ्यं ममत्वमभिनन्दः । अभिलाष इत्यनेकानि रागपर्यायवचनानि ॥१८॥ ईर्ष्या रोषो दोषो द्वेषः परिवादमत्सरासूयाः । वैरप्रचण्डनाद्या नैके द्वेषस्य पर्यायाः ॥१९॥ माध्यस्थ्यमित्यादि । अरागद्वेषवृत्तिर्मध्यस्थस्तस्य भावः कर्म वा माध्यस्थ्यम् । विगतरागद्वेषता वैराग्यम् । विगतो' रागो विरागस्तद्भावो विरागता । शमः शान्तिस्तेषामेव रागादीनामनु-दयाद्यवस्था। वैराग्यस्य सामीप्येन शम उपशमः । प्रकृष्टः शमो रागादीनामेव प्रशमः । दूषयन्तीति दोषाः अपूर्वकर्मोपादानेन जीवं कलुषयन्ति त एव रागादयस्तेषां २क्षय आत्यन्तिक उच्छेदः । कष्यन्तेऽस्मिन् जीवा इति कषः संसारस्तस्य आया उपादानकारणानीति कषायास्तेषां विजयोऽभिभवो निराकरणमेव एते सर्व एव वैराग्यपर्यायाः कथिताः ॥१७|| (१८) टीका-विगतरागश्च' विरागः । कः पुनरयं रागो नाम? । तमपि पर्यायद्वारेणाचष्टेइच्छेति । इच्छा प्रीतिः रमणीयेषु योषिदादिष्वात्मपरिणामः । मूर्छा बाह्यवस्तुभिः सहैकीभवनाध्यवसायलक्षण:२ परिणामः । कामः प्रार्थनाविशेषः इष्टस्य वस्तुनः । स्नेह: प्रतिविशिष्टप्रेमादिलक्षणः । गृद्धता गाय॑मभिकाङ्क्षा प्राप्तवस्तुविषया। 'ममेदं वस्तु, अहमस्य स्वामी' इति चित्तपरिणामो ममत्वम् । इष्टवस्तुप्राप्तौ परितोषोऽभिनन्दः । अभिलषणमभिलाष इष्टप्राप्त्यर्थं मनोरथः । एवमेभिः पर्यायशब्दैोऽर्थोऽभिधीयते स रागः ॥१८॥ (१९) टीका-दोषक्षयो वैराग्यमित्युक्तम् । तत्र पर्यायकथनेन दोषं निरूपयति-ईयेति । परविभवादिदर्शनाच्चित्तपरिणामो जायते 'वियुज्यतामेष एतेन विभवेन ममैवास्तु विभवोऽन्यस्य मा भूद्'इतीर्थ्यो । तथा सौभाग्यरूपलोकप्रियत्वादिविषया वाच्या: । रोषः क्रोधः । दूषयतीति दोषः । अप्रीतिलक्षणो द्वेषः । परदोषोत्कीर्तनं परिवादः । मां सारयति छद्मयति सद्धर्मादिति मत्सरः । असूया त्वक्षमा । परस्परवधादिजनितकोपसमुत्थं वैरम् । प्रकृष्टं चण्डनं प्रचण्डनं प्रकोपः शान्तस्यापि कोपाग्नेः सन्धुक्षणम् । एवमाद्या बहवोऽन्येऽपि द्वेषपर्यायाः ॥१९॥ (१८) (वि०) वैराग्यं तु रागद्वेषाभावे स्याद्, अतस्तयोः पर्यायानार्याद्वयेनाह-इच्छेति । ईप॑ति । व्यक्तम् । किन्तु रागस्याष्टौ पर्यायाः ॥१८॥ (१९) (वि०) स्पष्टमेव, किन्तु द्वेषस्य नव नामानि-ईर्ष्या १ रोषः २ दोषः ३ द्वेषः ४ परिवादः ५ मत्सरः ६ असूया ७ वैरं ८ प्रचण्डनम् ९ इत्यादि । आदिशब्दादन्येऽपि ज्ञेया इति । आर्यात्रयेणा(येऽ)पि पदानां किञ्चिदर्थभेदोऽप्यस्ति स स्वधियाऽभ्यूह्य इति ॥१९॥ (१८) (अव० )-बाह्यवस्तुभिः सहैकीभावेनाध्यवसायः, इष्टप्राप्तौ तोषः ॥१८॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy