________________
प्रशमरतिप्रकरणम्
वृत्त्यर्थं कर्म यथा तदेव लोकः पुनः पुनः कुरुते । एवं विरागवार्ताहेतुरपि पुनः पुनश्चिन्त्यः ॥१५॥ दृढतामुपैति वैराग्यभावना येन येन भावेन । तस्मिंस्तस्मिन् कार्यः कायमनोवाग्भिरभ्यासः ॥१६॥ माध्यस्थ्यं वैराग्यं विरागता शान्तिरुपशमः प्रशमः ।
दोषक्षयः कषायविजयश्च वैराग्यपर्यायाः ॥१७॥
(१५) टीका-तथापरमप्युदाहरणमस्मिन्नेवार्थे–वृत्त्यर्थं कर्म यथेत्यादि । वर्तनं वृत्तिरात्मनः कुटुम्बस्य वा पोषणं तदर्थम् । कृष्यादिकं कर्म करोति लोकः समुचितधनधान्योऽपि प्रतिवर्षं महती सम्पदमिच्छन् प्रकर्षवतीम् । एवं विरागवार्ता । वृत्तिरस्या विद्यत इति वार्ता । वैराग्यवृत्तिर्वैराग्ये वर्तनम् । तस्यां विरागवार्तायां यो हेतुः कारणं स पुनः पुनश्चिन्त्योऽभ्यसनीयः । स च हेतुः वैराग्यप्रख्यापकानि शास्त्राणि यान्यालोच्यालोच्य प्रतिक्षणं परित्यज्य रागादीन् वैराग्यमेवालम्बत इति ॥१५॥
(१६) टीका-तच्च वैराग्यमविच्छेदेन यथा न त्रुट्यत्यन्तराल एव तथानुष्ठेयमित्याह-दृढतामित्यादि । वैराग्यवासना प्रतिदिनं येन येन भावेन जन्मजरामरणशरीराद्युत्तरकारणालोचनादिना न विच्छिद्यते दृढतामेवोपैति । तत्र तत्राभ्यास: कार्यः कायमनोवाग्भिः । अथवा येन येन भावेनेति मन:परिणामेनात्यर्थं निर्वेदसंवेगरूपेण भाव्यमानेन दृढीभवति वैराग्यं, तत्र विधेयोऽभ्यास इति ॥१६॥
(१७) टीका-सुखावबोधग्रन्थरचनार्थं वैराग्यार्थवाचिनः पर्यायशब्दानाचष्टे
(१५) (वि० ) वृत्त्यर्थम्-जीवनार्थं, कर्म-कृष्यादिकम्, स यथा-यद्वत् तदेव कृष्यादिकं लोको-जनः, पुनः पुनरित्यादि सुगमम् ॥१५।।
(१६) (वि०) इतो वैराग्यानयनोपायमाह-दृढतामिति । दृढतां-स्थैर्यमुपैति-गच्छति वैराग्यभावना-विरागतावासना येन येन भावेन-विशिष्टान्तःकरणाभिप्रायेण तस्मिंस्तस्मिन् कार्योविधातव्यः । काभिः क इत्याह-कायमनोवाग्भिरभ्यास इति व्यक्तम् इत्यार्यार्थः ॥१६॥
(१७) (वि०) अथ वैराग्यपर्यायानाह-माध्यस्थ्यमिति । सुगमम्, नवरम् अष्टौ वैराग्यपर्यायाः ॥१७॥
(१५) (अव०)-आजीवनाकृते कर्म-कृष्यादि, हेतुः-कारणम्, अभ्यसनीयः ॥१५॥