________________
प्रशमरतिप्रकरणम्
यद्वदुपयुक्तपूर्वमपि भैषजं सेव्यतेऽर्त्तिनाशाय । तद्वद्रागार्तिहरं बहुशो ऽप्यनुयोज्यमर्थपदम् ॥ १३ ॥ यद्वद्विषघातार्थं मन्त्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ॥१४॥
११
(१३) टीका-पुनरुक्तदोषोऽपि न ढौकते प्रकारान्तरेण वैराग्याभ्यासादारोग्यार्थिनो भैषजोपयोगवदित्याह-यद्वदिति । लब्धप्रत्ययमुपयुक्तमौषधं प्रथमं पुनः पुनस्तदेवोपयुञ्जते । तदुपयोगाच्चाभ्यासतः प्रतिदिनं व्याधेरुपशमप्रकर्षविशेषसमासादनं दृष्टम् । व्याधिकृतं दुःखम् अर्तिर्वेदना । उपयुक्तपूर्वमपीत्यनेन लब्धप्रत्ययत्वमाचष्टे । तद्वत्तथा रागार्तिहरम् । रागग्रहणं द्वेषादीन् २सूचयति। रागद्वेषोपात्तकर्मोदयप्रसूतायास्तीव्रंवेदनार्तेरपहारकारि पुनः पुनरुंच्यमानमप्यदुष्टमेवार्थप्रधानं पदमदोषमनुयोज्यमनुयोजनीयं वाक्प्रबन्धेनानेकश इति ॥१३॥
(१४) टीका- तथा च- यद्वविषघातार्थं मन्त्रेत्यादि । वृश्चिकादिदष्टानामपमार्जनं कुर्वन्तो मन्त्रवादिनस्तद्विषजनितवेदनाविघातं विधित्सन्तः पुनः पुनस्तान्येव मन्त्रपदान्यावर्तयन्ति । दृष्टश्च प्रतिक्षणं १विषविघातः । तद्वद्रागविषघ्नं वैराग्याग्निसन्धुक्षणप्रवणमनेकशोऽभ्यस्यमानं रागद्वेषविघातित्वात् न पुनरुक्तदोषमासजतीति ॥१४॥
(१३) *(वि०) अमुमेवार्थम् आर्यात्रयेण भावयन्नाह - यद्वदिति । यद्वदिति । वृत्त्यर्थमिति । यद्वद्-यथा विषघातार्थं - गरोत्तारणाय मन्त्रपदे - ॐकारादिके वचने, समुच्चार्यमाणे इति शेषः । न पुनरुक्तदोषोऽस्ति - नैव भूयोभणनदूषणं विद्यते तद्वत्-तथा रागविषघ्नं'सङ्गगरविनाशकम् पुनरुक्तं भूयोभणितम् अदुष्टम् - अदूषणवद् अर्थपदं-सूचकत्वाद् सूत्रस्यार्थवाचकं पदमिति आर्यार्थः ॥१३॥
(१४) (वि० ) यद्वत्-यथा उपयुक्तपूर्वमपि प्रथमप्रयुक्तमपि भेषजम् - औषधम्, सेव्यतेपुनः क्रियते-ऽर्तिनाशाय-पीडाविनाशार्थम् तद्वत्-तथा रागार्तिहरं - प्रतिबन्धपीडानाशनम्' बहुशोऽपि - अनेकधाऽप्यनुयोज्यम्-उच्चारणीयम् अर्थपदम्-अभिधेयवत्पदमित्यार्यार्थः ॥१४॥
(१३) (अव० )—–'पूर्वं सेवितमपि पुनः पुनः सेव्यते अनुयोजनीयं वाक्प्रबन्धेन ॥१३॥ (१४) (अव०) - अर्थाभिधायि पदं शास्त्रम् ॥१४॥
विवरणेऽवचूरौ च १३-१४ कारिकाव्याख्यानस्य व्युत्क्रमो दृश्यते ।