________________
प्रशमरतिप्रकरणम्
बालस्य यथा वचनं काहलमपि शोभते पितृसकाशे । तद्वत् सज्जनमध्ये प्रलपितमपि सिद्धिमुपयाति ॥११॥ ये तीर्थकृत्प्रणीता भावास्तदनन्तरैश्च परिकथिताः । तेषां बहुशोऽप्यनुकीर्तनं भवति पुष्टिकरमेव ॥१२॥
(११) टीका-तथान्यदप्यस्मिन्नेव सुजनव्यतिकरे प्रकरणकार उदाहरति-बालस्य यथा वचनमित्यादि । बालः शिशुरनभिव्यक्तवर्णवचनः । तद्वचनं काहलमृजु स्खलदक्षरं गद्गदमपि,३ पितुः समीपे विराजते, परितोषजनकत्वात् कौतुकमाधत्ते । पुनः पुनस्तदेवोपबध्नाति पिता । तद्वदिति बालकाहलवचनवत् । सज्जनानां मध्ये प्रलपितमसम्बद्धमपि प्रसिद्धिं प्रख्यातिमुपयातीति ॥११॥
(१२) टीका-अत्राह-यदि पूर्वमनेकाः प्रथिताः प्रशमजननशास्त्रपद्धतयो महामतिभिस्तत्कोऽयं प्रशमरतिप्रकरणकरणे पुनरादरः ? ता एवाभ्यस्यनीयाः प्रशमकाक्षिणा । उच्यते-ये तीर्थकृत्प्रणीता भावा इत्यादि । प्रागर्थतस्तीर्थकरैः प्रणीताः । तदनन्तरं गणधराः साक्षाच्छिष्या भगवतां तैश्च सूत्रप्रबन्धेन परिकथिताः । भूयस्तदनन्तरैर्गणधरशिष्यैः४ पारम्पर्येणाख्याता भावा इति जीवादयः पदार्था लक्षणविधानानुयोगद्वारप्रक्रमेण प्ररूपितास्तेषां भावानां बहुशोऽनेकशः पश्चात् कीर्तनमनुकीर्तनं मनोवाक्कायैर्बन्धमोक्षप्रक्रियानुग्रहण(ग्राहक)तया पुष्टिकरमेव भवति । पुष्टिरुपचयो ज्ञानदर्शनचारित्राणाम् । तदुपचयाच्च कर्मनिर्जरणम् । ततो मोक्ष इति नास्ति कश्चिद्दोषः ॥१२॥
(११) (वि०) अन्यदपि सज्जनचेष्टितं दृष्टान्तान्तरयुतमाह-बालस्येति । बालस्यशिशोर्यथा' वचनं-जल्पितम्, काहलमपि-अव्यक्ताक्षरमपि शोभते-राजते पितृसकाशे-मातापित्रोरग्रत इति दृष्टान्तः, दाान्तिकमाह-तद्वत्-तथा सज्जनमध्ये प्रलपितमपि-अनर्थकं वचनमपि सिद्धिमुपयाति-ख्यातिमुपैतीत्यार्यार्थ:२ ॥११॥
(१२) (वि०) ननु पूर्वकविकृता अपि शमजननशास्त्रपद्धतयः सन्ति तत् पुनः किमनयेत्याशङ्क्याह-य इति । ये तीर्थकृत्प्रणीता भावा-जीवादयस्तदनन्तरैश्च-गणधरादिभिः परिकथिताः-प्रकीर्तिताः तेषां बहुशोऽप्यनुकीर्तनम् अनेकधाऽपि संशब्दनं भवति-जायते पुष्टिकरमेवेत्यार्यार्थः ॥१२॥ (११) अव०-काहलमपि अव्यक्ताक्षरम् असम्बद्धं, प्रलपितमपि अनर्थकवचनमपि, प्रख्यातिम् ॥११॥ (१२) अव०-गणधरादिभिस्तेषां ज्ञानादीनां भावानां' पश्चात्कीर्तनमनुकीर्तनम् ॥१२॥