________________
प्रशमरतिप्रकरणम्
सद्भिः सुपरिगृहीतं यत् किञ्चिदपि प्रकाशतां याति । मलिनोऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्थः ॥१०॥
९
स्वभावः । स्वाभाविकी मतिः सहजा निःकृत्रिमा सा किलामोघा भवति । तया त्या सुष्ठु निपुणोऽपि कुशलोऽपि कः खल्वत्र सतां सौजन्ये निमित्तं कारणमन्यद्वक्ष्यति । स्वभावादृते न खलु मालतीपुष्पाणामाधेयः सुरभिगन्धः १ केनापि, स्वभावजत्वात् । हिशब्दो यस्मादर्थे । वाशब्दस्तस्मादर्थे । यस्मात् सुनिपुणोऽपि स्वभावमन्तरेण नान्यन्निमित्तं वर्णयितुं समर्थः तस्मात् स्वभाव एवायं सतां परगुणोत्कीर्तनं दोषाभिधाने च मूकत्वमिति पश्चार्द्धेन दर्शयतिदोषमलिनेऽपि । दोषयुक्तेऽपि परकीयवचने गुणान् सारभूतान् गृह्णन्ति सन्तः परगुणग्रहण - निपुणाः। जानाम्येवाहं पूर्वपुरुषोच्छेषिकाः पुलाकिकाः समुच्चित्य रचितेयं विरागमार्गपदिका, अतो न सम्मता विदुषाम् तथापि ॥ ९॥
(१०) टीका–सद्भिः सुपरिगृहीतमित्यादि । सन्तः सुजनास्तैः सुपरिगृहीतमादरेण प्रतिपन्नं यत्किञ्चिदपि दोषवदपि निःसारमपि वा । प्रकाशतां याति लोके प्रथते । विदुषां सुजनानां सम्मतमेतदिति परिगृहितृगुणेन प्रख्यातिमेति विद्वत्समाजेष्विति तद्दर्शयति-मलिनो - ऽपीत्यादिना । चन्द्रमण्डलमध्यवर्ती कुरङ्गः कृष्णिमानमपि बिभ्रत् प्रकाशते शोभते पूर्णचन्द्रस्थः । आश्रयगुणो ह्ययं यन्मलिनोऽपि हरिणो भ्राजते । एवं यदेवरे सद्भिः परिगृह्यते निस्सारमपि तत्सदाश्रयादेव भ्राजत इति ॥ १०॥
इतरद्, वक्ष्यति-भणिष्यति, वादी- जल्पाक इति योगः । कीदृश: ? - निसर्गमत्या - स्वभावबुद्ध्या, सुनिपुणो 'निसर्गमतिसुनिपुणोऽपि, आस्तां अनीदृशः । यद् - यस्मात् सन्तः - सज्जनाः, गुणसारग्रहणदक्षाःगुणस्वीकारकुशलाः, भवन्तीति शेषः । क्व ? - दोषमलिनेऽपि सदोषेऽपि, वस्तुनीत्यध्याहारः । स्वभावादेव दोषपरित्यागेन गुणग्राहिणः सत्पुरुषा भवन्तीति भावार्थः ॥९॥
(१०) (वि०) अथैवंविधायाः सद्भिर्गृहीतायाः को गुणः स्यादित्याह - सद्भिरिति । सद्भिः सुपरिगृहीतम्–'अतिशयाङ्गीकृतम् यत्किमपि - असारमपि, आस्तां सारम्, प्रकाशतांप्रकटताम्, याति-गच्छति इति दान्तिकः, दृष्टान्तमाह- मलिनोऽपि - कृष्णोऽपि, आस्ताममलिनः, यथा-येन प्रकारेण, हरिणो-मृगः, प्रकाशते - शोभते, कीदृश: ? पूर्णचन्द्रस्थः-पौर्णमासीशशिमध्यस्थित इति आर्यार्थः ॥१०॥
अपि तु नेति । वा तस्मादर्थे । हिः यस्मादर्थे । स्वभावतया सुष्ठु कुशलोऽपि इति । भणितेनामत्सरिणा स्वभावेन कृता ॥९॥
(१० ) ( अव० )–प्रकाशतां प्रकटताम् । कृष्णिमानमपि बिभ्रत् शोभते निःसारं यत्किञ्चित् ॥१०॥