________________
प्रशमरतिप्रकरणम्
यद्यप्यवगीतार्था न वा कठोरप्रकृष्टभावार्था । सद्भिस्तथापि मय्यनुकम्पैकरसैरनुग्राह्या ॥८॥ कोऽत्र निमित्तं वक्ष्यति निसर्गमतिसुनिपुणोऽपि 'वा ह्यन्यत् ।
दोषमलिनेऽपि सन्तो यद् गुणसारग्रहणदक्षाः ॥९॥ (८) टीका-ननु चोच्छिष्टाः श्रुतवाक्पुलाकिकाः परिगृह्य या रचिता कथं सा सतां सम्मता भविष्यतीत्याह-यद्यप्यवगीतार्था न वेत्यादि । अवगीतोऽनादृतः परिभूतोऽर्थो यस्याः सावगीतार्था यद्यपि । कथं पुनरवगीतार्थत्वमाशङ्कयते ? । यतो न वा कठोरप्रकृष्टभावार्था । वाशब्दोऽवधारणार्थः । न च कठोर आक्षेपपरिहारपरिशुद्धः प्रकृष्टो वाचकैः शब्दैः प्रतिपाद्यो नातः परमन्योऽर्थोऽस्तीति सकलकारककलापसाध्यः प्रकर्षभावापन्नोऽर्थो नैव यस्यारे । सद्भिस्तथापि सुजनैर्गुणदोषविद्भिः। मय्यनुकम्पैकरसैरनुग्राह्या मयीत्युच्छेषिकामात्रसङ्घटनेशीले कृपणके द्रमकभूतेऽनुकम्पार्हे । अनुकम्पैवैको रसः स्वभावो येषां सज्जनानां तैः अनुकम्पैकरसैः । इयमनुग्रहीतव्या अनुग्रहार्हेत्यर्थः । सन्तो हि करुणापात्रमवलोक्यावश्यन्तयानुग्रहं कुर्वन्तीति ॥८॥
(९) टीका-अयमेव स्वभावः सज्जनानामिति दर्शयन्नाह-कोऽत्रेति । निसर्गः
(८)(वि०) नन्वसारत्वात् श्रुतवाक्पुलाकिकानां तत्संहरणरचिता सती सतामनादरणीयैव स्यादियमित्याह-यद्यप्येति । यद्यपि वक्ष्यमाणदोषयुक्ता तथापि सद्भिरनुग्राह्येति सम्बन्धः । दोषानेवाहअवगीतार्था-अनादरणीयाभिधेया, वर्तत इति शेषः । तथा न वा कठोरप्रकृष्टभावार्था-न वेति निषेधे कठोरो विबुधजनयोग्यो गम्भीर इत्यर्थः, प्रकृष्टः-प्रधानो भावार्थ:-पदाभिधेयो यस्यां सा तथा, अगम्भीरप्रधानभावार्थेत्यर्थः । यद्वा न वा-नूतना आधुनिककविकृतत्वात् तथा अकारप्रश्लेषात् न विद्यते कठोरप्रकृष्टभावार्थो यस्यां सा तथा । सद्भिः-सज्जनैः । तथापि-एवमपि । मयीति विषयभूतात्मनिर्देशः, अनुकम्पैकरसैः-दयाप्रधानमानसैरनुग्राह्या-अङ्गीकर्तव्या । इत्यार्यार्थः ।।८।।
(९) (वि०) इत्यभ्यर्थना कृता, यद्वा स्वभावत एव सन्तो दोषत्यागेन गुणानेव ग्रहीष्यन्तीत्यावेदयन्नाह–कोऽत्रेति । को?-न कश्चिदित्यर्थः । अत्र-सौजन्यविचारे निमित्तं-कारणमन्यद्(८) (अव०)-अवगीतोऽनादरणीयोऽर्थो यस्याः सा ।
न वा निषेधे, गम्भीरप्रधानभावार्था, अङ्गीकर्तव्या ॥८॥ (९) (अव० )-अत्र सतां सौजन्यविषये कारणं सत्स्वभावादन्यत् कोऽपि किं वक्ष्यति ?
+ वाद्यन्यदिति विवरणकृतसम्मतः पाठः ।